________________
नाटकप्रकरणम्।
विलास. ६]
१०१ विदू-(सर्वतो विलोक्य ) वअस्स दिडिआ ईसि विगळन्तवेओ चण्डअरादवो । ता विसज्जे हि मं दाणिं भोअणणिवत्तणाय।
राजा-सर्वस्याप्यपरिहार्यः स्वस्वाभिनिवेशः । यदयमनेन कार्यसत्वेऽप्यशनायापनोदनमेव सन्ततमभिलषति, अहं पुनः
तामेव तत्क्षण समश्चितधर्मजालैः
स्विद्यन्मृगीमदललामलसल्ललाटाम् । वाचालभृगचरणाहतकर्णपूर
__ व्यावृत्त(वयं?)माननयनां ललनां स्मरामि॥ (इति चिन्तयति) विदू-वअस्स किस मुहा चिन्तए मजन्तोऽसि, अहं एव्व इदो णादिसमीवहिए दोडुराअसमुदणामग्गहारम्मि णिवद्विअभोअणो तुरीयं आगत्तुय झडिदि तुह इच्छिदं घडइस्सं, दावपेरन्तं एद्मदूरगदं चंपवणं पविसि परिसरमरगदसरतरङ्गमारहमासेवन्दो चिट्ट ।
अत्र तवेष्टं घटयिष्यामीत्यनेनोपक्षिप्सकन्याप्राप्तिरूपार्थानुगुण्येन नायकप्रोत्साहनात् भेदः
बीजस्योत्तेजनं भेदो यदा प्रोत्साहनं मतम् । राजा--उन्निद्रकुसुमकाननमुद्यानसरस्तरङ्गपवनश्च ।
न तथा मुदं मम सखे घटयिष्यामीति तव यथा कथितम् ।। तथाऽप्पनतिलहनीयं सुहृद्वचनमिति तत्रैव भवन्तं प्रतिपालयिष्यामि । अत्र तत्रैवेत्यादिवाक्येन इष्टसम्पादने अत्यौत्सुक्यसूचनादयमारम्भ:'औत्सुक्यमात्रमारम्भः फललाभाय भूयसे' ॥ इति ॥ तदेव करणम्
करणं प्रकृतारम्भोऽनन्तराङ्गस्य हेतुमत् । 'बीजानुगुण [प्रस्तुतकार्या] रम्भः करणमित्युक्तेश्च ।
इत्थमारम्भबीजसम्बन्धरूपः साङ्गो मुखसन्धिः। विदूषकः--वअस्स सन्ततपरिहसणसीलो एसो तकालिआसासणं किंवि किंवि महुरंविय कहिअ चलिदेत्ति मामन्तेहि । (छा) वयस्य दिष्ट्या ईषद्विगलदेंगश्वण्डकरातपः, तद्विसर्जय मामिदानीं स्नानभोजननिवर्तनाय ।
(छा) वयस्य कस्मान्मुधा चिन्तायां मज्जनसि । अहमेव नातिसमीपस्थिते दोहराय समुद्रनामाग्रहारे निर्वर्तितभोजनः त्वरितमागत्य झटिति तवेष्टं घटयिष्यामि, तावत्पर्यन्तमेतदूरगतं चम्पकवनं प्रविश्य परिसरमरकतसरस्तरह मारुतमासेवेमानस्तिष्ट
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com