SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १०० नजराजयशोभूषणम् । [ विलास. ६ राजा-(स्वगतम् ) कथमस्मै निवेदयेयमलीकप्रायवस्तुदर्शनजनितमभिनिवेशम् । अथवा अवश्यं वक्तव्यमेव दृष्टमलीकमन्यद्वा तदिति विस्रम्भनिवासाय वयस्याय । अत्रैव हि विश्रामो नितान्तमन्तरङ्गस्य ।। (प्रकाशम् ) सखे अपि न जानास्युत्कण्ठितस्य सर्वमुत्कण्ठायै इति। विदू०-वयस्स उक्कण्ठाकालणं पुच्छेमि, अवि तुए अन्तेउरम्मि देवीए पणअकिदो को वि कोवो पसंजिदो भवे, जेण अहं वि मज्झत्तणं ओलं. बिअ दुवेणं तुह्माणं हत्थादो नालिएरादिअं गणहिस्सं । राजा-असंभावितमेतत् । विदू-तह किं कहेहि । राजा-मृगयां गतेन हि मया कान्ता काचिन्मनोज्ञलावण्या । आलोकिता रतिपतेर्वीराग्रेसरस्य वैजयन्तीव ॥ विदू-तदो तदो। राजा-तस्यास्तनुद्युतिनवाम्बुषु सञ्चरन्त मालोक्य मे हृदयमीनमतीव वेगात् । आकर्णतीक्ष्णशरनिर्मितवागुराभि बंधाति वीतकरुणो विषमास्त्रदाशः॥ एतगूढबीजस्य प्रकाशना दुद्भेदः। उद्घाटनं यद्वीजस्य स उद्भेद उदाहृतः । (नेपथ्ये ) हेसाहि कण्णगहिराहि तुरङ्गमाणं दम्भेरमाण कडहेहि वि बिंहिएहिं । धीरेहि भेरिणिणएहि असेणिआणंघोसेहि अब निबिडं शिबिरं समन्ता॥ विद-(कणे दत्वा) वअस्स अनुअरस्स उध्योसो एसो। राजा-(सविमर्शम् ) मामन्विष्यतां मार्गान्तरेण शिबिरमुपसर्पतां सैनिकानामयं कोलाहलः। (छा) वयस्य उत्कण्ठाकारणं किमिति पृच्छामि । अपि त्वया देव्याः प्रणयकृतः कोपः प्रसञ्चितो भवेत् । येनाहमपि मध्यस्थत्वमवलम्ब्य द्वयोरपि युवयोर्हस्तात् नालिकेरादिकं गृहीष्यामि । (छा) तर्हि किं कथय (छा) ततस्ततः (छा) हेषाभिः कर्णगभीराभिस्तुरङ्गमाणां स्तम्भेरमाणां कटुभिरपि बंहितैः । धीरे रीनिनादैश्व सैनिकानां घोषैरद्य निबिडं शिबिरं समन्तात् ॥ (छा) वयस्य अनुचरस्योद्घोष एषः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy