SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ नजराजयशोभूषणम् । [विलास.६ मातरमिवेहितानामाधात्रीमधिकवत्सलामनिशम् । भगवत्युपश्रुते त्वामवलम्ब्य कथञ्चिदपि लभे धैर्यम् ॥ भवतु कुत्रत्येयमिति जानामि । नेपथ्याभिमुखवलोक्य । आः कथमस्मत्प्रियवयस्यचूडाकर्णः, केनापि कलहसन्नाहीवायमभिवर्तते । तथाहि गाढाबद्धोत्तरीयं कटिभुवि जवदोस्स्रस्तयज्ञोपवीतं भ्राम्यन्मुष्टि प्रकामप्रतिचलधरं प्रस्फुरन्नासिकाग्रम् । नृत्यच्चूडं नितान्तस्खलितपदयुगन्यासमुद्देलनिर्य धर्माम्भोरुषिताङ्गं धुरि पतति रुषा हन्त केनापि योडुम् ॥ दिष्टया क्षणमप्यस्य संरम्भदर्शनेन वा स्मरसन्तापमान्तरमन्तरयामि । अथवा शृङ्गाररसासक्तेः पुरतो दूरे रसान्तरविचारः । ग्रीष्मे प्रतपति तपने विधिना] विन्यस्तदीपरोचिरिव ॥ प्रविश्य यथोक्तो विदूषकः-मुष्टिमुद्यम्य, अहो धूअ दासीएउत्त अवि तुज्झ कण्णपहं णावइण्णो एसो चूडाकण्णो, जदो एव्वं गव्वुत्ताणो होसि । ता चिठ्ठ दाव दाणी एव तुमं सिहंडयंमि गण्ही. इमाए लाअण्ण गोण्डिहिं णालिएरसहस्सस्स वि एकप्पहारेण तिलसो खण्डीकरणं मि परिक्खिअपण्डि. च्छाए मुद्दीए तुह शीसं सलत्तच्छृणीकरिस्सम्, (इति विकट परिक्रामन् राजानमवलोक्य) जेदु महाराओ, (इति वदन् पुनः परिभ्रमणमभिनयति ) राजा-अहो कौतुकपदमिदम, कस्मै पुनरयं क्रुद्धयतीत्यापृच्छ्य ज्ञास्यामि (किश्चिदुचैः ) सखे चूडाकर्ण कोपरफुरन्मुखविसृत्वरधर्मपूरै रेकार्णवानि भुवनानि विधातुकामः । उद्धान्तजीर्ण(वृ?)षदंशपिशङ्गनेत्रः सन्नासे त्वमधुना कतमेन योडुम् ॥ विदू०-चूडाकणमित्तंति तिहुवणजाणिदस्स वि होदो अत्ताणं विसु. मरिअ अविणअमाअरन्तेण तेण दुग्विणीदीणेव्व ॥ (छा ) अरेधूर्त दास्याः पुत्र, अपि तव कर्णपथं नावतीर्ण एष चूडाकर्णो यदेवं गर्वोत्तानो भवसि, तत्तिष्ठ तावत् क्षणमिदानीमेव त्वां शिखण्डके गृहीत्वाऽनया राजन्यगोष्ठीभिर्नालिकेरसहस्रस्यापि एकप्रहारेणैव तिलशः खण्डीकरणे परीक्षितपाण्डित्यया मुष्टया तव शीर्ष सरक्तोच्छ्नं करिष्ये । (छा) जयतुमहाराजः। (छा) चूडाकर्णमित्रमिति त्रिभुवनज्ञातस्यापि भवत आत्मानं विस्मृत्याविनयमाचरता तेन दुविनीतेनैव Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy