________________
विलास.६]
नाटकप्रकरणम् । (साशङ्कमभितो विलोक्य ) दिष्ट्या न कश्चित्र जनः, येन मामसम्भावितवस्तुसमागममरुमरीचिकासलिलैरेव सन्तापमान्तरमपनेतुकाममवलोक्य भृशमपहसेत् ।
अथवा किमन्येन । मयैवाहमपहास्ये । तथा हिकेनापि पुण्येन दृशोः कदाचित् क्षणं पुरोभूय तिरोभवत्याः । कस्याश्चिदाश्लेषरसेन कासन् सन्तापशान्ति स कथं न हास्यः ॥
यदा-परवन्तो हि वयं महेश्वरेणाप्यनतिलहनीयशरेण विषमशरवी. रेण, तत्तमेवोपालभे । आकाशे मदनमभिलक्ष्य
अलभ्यार्थाभावादनवगतचिन्तस्य हि मम
प्रदर्याग्रे काश्चिद्युवतिमिव मायामभिनवाम् । धृति दूरीकर्तुं भ्रमयितुमकाण्डेऽपि च मनो
विधातुं सन्तापं वद किमपराद्धं स्मर मया ॥
अहो राजनि विरुन्ध (ध्य ?) ति तदीयः सर्वोऽपि विरुद्ध एव । यतः-सहृदयमसमेषोरुन्मिषत्पङ्कजाना
मुपवननलिनीनां कृष्टकिजल्कसारः । मरुदतनुत पूर्व यो ममैव प्रमोदं
क्षिपति मयि स एव प्रज्वलाङ्गारखण्डान् ॥ अनेन मरुतः सुखदुःखहेतुत्वकथनात् विधानम् । सुखदुःखकरं यत्तु तद्विधानं विदुर्बुधाः ।
(निश्वस्य) किमिदानीं करोमि । नेपथ्ये-धीरोभविअ विस्सद्धो होहि ।।
राजा-आकर्ण्य सहर्षम् । अये, अमृतमयीव काऽप्युपश्रुतिरियमस्मानुज्जीवयति । भवतु यथोक्तं करोमि । अनेन नेपथ्योक्तरङ्गीकारकथनात् समाधानं नामाङ्गम् ।
वस्तुनः पुनराधानं समाधानमिहोच्यते । (नेपथ्यमभिलक्ष्य ) (छा) धीरो भूत्वा विस्रब्धो भव ।
१३-१४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com