SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ विलास.६] नाटकप्रकरणम् । (साशङ्कमभितो विलोक्य ) दिष्ट्या न कश्चित्र जनः, येन मामसम्भावितवस्तुसमागममरुमरीचिकासलिलैरेव सन्तापमान्तरमपनेतुकाममवलोक्य भृशमपहसेत् । अथवा किमन्येन । मयैवाहमपहास्ये । तथा हिकेनापि पुण्येन दृशोः कदाचित् क्षणं पुरोभूय तिरोभवत्याः । कस्याश्चिदाश्लेषरसेन कासन् सन्तापशान्ति स कथं न हास्यः ॥ यदा-परवन्तो हि वयं महेश्वरेणाप्यनतिलहनीयशरेण विषमशरवी. रेण, तत्तमेवोपालभे । आकाशे मदनमभिलक्ष्य अलभ्यार्थाभावादनवगतचिन्तस्य हि मम प्रदर्याग्रे काश्चिद्युवतिमिव मायामभिनवाम् । धृति दूरीकर्तुं भ्रमयितुमकाण्डेऽपि च मनो विधातुं सन्तापं वद किमपराद्धं स्मर मया ॥ अहो राजनि विरुन्ध (ध्य ?) ति तदीयः सर्वोऽपि विरुद्ध एव । यतः-सहृदयमसमेषोरुन्मिषत्पङ्कजाना मुपवननलिनीनां कृष्टकिजल्कसारः । मरुदतनुत पूर्व यो ममैव प्रमोदं क्षिपति मयि स एव प्रज्वलाङ्गारखण्डान् ॥ अनेन मरुतः सुखदुःखहेतुत्वकथनात् विधानम् । सुखदुःखकरं यत्तु तद्विधानं विदुर्बुधाः । (निश्वस्य) किमिदानीं करोमि । नेपथ्ये-धीरोभविअ विस्सद्धो होहि ।। राजा-आकर्ण्य सहर्षम् । अये, अमृतमयीव काऽप्युपश्रुतिरियमस्मानुज्जीवयति । भवतु यथोक्तं करोमि । अनेन नेपथ्योक्तरङ्गीकारकथनात् समाधानं नामाङ्गम् । वस्तुनः पुनराधानं समाधानमिहोच्यते । (नेपथ्यमभिलक्ष्य ) (छा) धीरो भूत्वा विस्रब्धो भव । १३-१४ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy