SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ९६ नजराजयशोभूषणम् । [विलास.६ अये जाहिककथं पञ्चषैरेव तुरगराजस्य पदोत्पलवनैः शिविरमुपगता वयम्। अनुचरः-किमेत्तमचेरम् अच्चुदग्गदाडिआजवेण मणं वि लहुकुणन्तस्स से अस्ससेहरस्स। राजा-सत्यमुक्तं मनोऽपि लघूकरोतीति । यतः तय॑न्ते नियतं रजोभिरुदितैरुया खुराघटना न्यालक्षीक्रियते दृशाऽद्य युगपद्यावत्तरूणां ततिः । वक्तुं वाऽपि पुरस्तदेतदिति मे नैवावकाशो जवा दस्मिन् तुङ्गतुरङ्गमे रचयति प्रोद्दण्डधाटीगतिम् ॥ अनुचरः-एसो मज्झेमग्गं पच्छाअसीअलो पेरन्तपम्मिणीवि. सण्डकमलमअरन्दकणकसणकसायिदमारुअपोतअपरिफन्दमन्दन्दोलिअपवालो हत्थग्गेण तुम्हे आआरअन्तोविअ केसररुक्खो से छायाइं मिअआसमअविइण्णम्हसेणाअमणपेरन्तं वीसामसोखं लहेह ॥ यत्र राजा-(तथेति तुरगादवरुह्य वृक्षमूलोपसर्पणमभिनयन् )-अये जाडिक सुदूरसरणिसञ्चारणनितान्तपरिश्रान्तोऽयमश्वः। सलिलपिपासुश्च । तदधुना विमलकमलसरःपरिसरमधिनीयताम् । अनुचरः-जह सामिपादा आणवेन्दि (इति साश्वो निष्क्रान्तः) राजा-(वृक्षमूले उपविश्य, सन्तापातिशयमभिनयन् )अये कथमतिविशालशीतलच्छायालुतरमूले निवसतोऽपि प्रतिक्षणमभिवर्धते सन्तापः । (विमृश्य ) अथवा, मतेरुपरिप्लुतेनालं मोरध्येन स्तोकतालवृन्तचलने नैव प्रदीपकलिकानेरिव प्रज्वलतोऽपि दावानलस्य प्रशमनमभिलषामि । सद्यः स्विद्यनिबिडपुलकोज्जृम्भवक्षोजकुम्भ स्वैरामर्दप्रमुदितवधूनिर्भरालिङ्गनेन । सन्तापोऽयं कुपितमदनोद्दण्डकोदण्डमुक्ता दाग्नेयास्त्रान्मम समुदितो हन्त निर्वापणीयः ॥ (छा ) किमेतदाश्चर्य अत्युदप्रधाटिकाजवेन मनोऽपि लघूकुर्वतोस्याश्वशेखरस्य। (छा) एष मध्ये मार्ग प्रच्छायशीतलः पर्यन्तपद्मिनीविस्फुटकमलमकरन्दकणकषणकषायितमारुतपोतकपरिस्पन्दमन्दान्दोलितप्रवालो हस्ताग्रेण युष्मानाकारयन्निव केसरवृक्षः, अस्यच्छायायां मृगयासमयविकीर्णास्मत्सेनागमनपर्यन्तं विश्रामसौख्यं लभध्वम् । (छा) यथा स्वामिपादा आज्ञापयन्ति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy