SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ विलास.६] नाटकप्रकरणम्। सा चेत्पन्नगकन्यका श्रुतिसहस्र[स्यापि तस्योचिता(तो?) हरभावोऽहिपतेरेथैव मनुजा स्वर्गो न हृद्गोचरः। दिव्या चेन्ननु सम्पदा सुरपतेः क्रीतं समस्तं जगत् का वा तत्सहशीं शृणोमि न कदाप्यन्यामवन्यामहम् ॥ अनेनोपक्षिप्तार्थविषयकाश्चर्यावेशकथनात् परिभावनम् 'परिभावोऽद्भुतावेश' इति। अथवा, किममुना संशयेन । लावण्यार्णवसञ्जाता वर्धमाना दिवानिशम् । कापि चन्द्रकला धत्ते जगताममृताञ्जनम् ॥ अनेनोपक्षिप्तार्थगुणवर्णनाद्विलोभनम् । 'नायकादिगुणानां यद्वर्णनं तद्विलोभनम् ।' इति निमीलिताक्षस्तामेवानुध्यायन् गात्रस्तम्भमभिनयति । अनेनोपक्षितार्थास्मकबीजस्य सुखप्राप्तिकथनात्प्राप्तिः। 'प्राज्ञैः सुखस्य संप्राप्तिः प्राप्तिरित्यभिधीयते ॥ अनुचरः-(स्वगतम् ) एसो मियआविहारेण भिसपरिस्सन्दो विष मीलन्तणेत्तनिप्पलो णिचलङ्गो लखिजइ । ता इदाणिं विष्णवेमि। (प्रकाशम्) सामिपादा अतिमत्तविप्पइविअडदेसेसु आहेडअसञ्चलणेण किलिन्दा ललिवजह, ता विण्णवेमि इहेव्व उद्देसे ईसि विस्समिजउ । राजा-तथेति । अग्रतोऽवलोक्य, अये जाडिक, नूतनपुरपरिसरमुपगताः स्मः । तत्रनभोविकषणोपलोल्लिखितहेमशृङ्गोषयः पुरो नयनगोचरो भवति भद्रशैलो भृशम् । तमेनमभितो विभान्त्यमितरत्नवातायन प्रलप्तपथसश्चरजलधराणि हाणि च ॥ ग्रीवायामश्वमास्फालयन् १ परै ०L. (छा) एष मृगयाविहारेण भृशपरिश्रान्त इव मीलनेत्रनीलोत्पलो निश्चलानो लक्ष्यते । तस्मादिदानी विज्ञापयामि। स्वामिपादाः । अतिमात्रविप्रकृष्टविकटदेशेष्वाखेटकसश्चरणेन कान्ता लक्ष्यम्वे । तस्माद्विज्ञापयामि इहैवोद्देशे ईषद्विश्रम्यताम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy