SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ नजराजयशोभूषणम् । [विलास. ६ ततः प्रविशत्यनुचरेणानुसृतस्तुरगाधिरूढो मृगयानिवृत्तो राजा । सानन्दम्अहो चिरेण लब्धो महान्विनोदः, तथाहि-- गोकर्णा लूनकर्णाः कतिचन विशिखैः पूरिताङ्गाः कुरङ्गाः शार्दूलाः केपि शूलाञ्चलदलितगलाः क्रोधनिधूतवालाः । भिन्नाः पुन्नागसङ्घा अपि मदमुदिता घर्घरोद्गारिघोणा श्छिन्ना वन्या मयाऽऽसन्वनभुवि मृगयाविभ्रमेऽस्मिन्वराहाः ॥ (सानुस्मरणम् ) तदाकिल-- मत्कोदण्डकठोरशिञ्जितरवत्रस्तैः कुरङ्गैः समं भूयस्स्वेदगणावकीर्णवदनग्रस्तार्धदूर्वाङ्कुरम् । धावन्तीः कतिचित्पदानि कथमायापूर्णगर्भालसाः सारङ्गीरथ पश्यतः करुणया चित्तं मयार्दीकृतम् ॥ अनुचरः-सामिपादा अदिमेत्तपन्जलितकोवानलफुलिङ्गसअलपसरणमेत्तेण कबलीकरजिततिहुवणहिअअधीरा वि जोग्गत्तलसअंपवण्डन्तकरुणाणिस्संदिहिअआ खु तुंमारिसा पुरिसा। राजा-स्वगतम् । अहो पारम्परी स्मृतीनाम् , तथाहि दिशि दिशि चलितानां चश्चलप्रेक्षणानां कुलमथ हरिणीनां पश्यतो मानसं मे । स्मरति जनितनीलाम्भोजदामभ्रमाणां चतुरयुवतिचक्षुर्वैखरीविभ्रमाणाम् ॥ अथवा । कथमचापि स्मरतीति, इदश्च सकलनगराङ्गनानयनकुवलयकामनीयकसौभाग्यसाधारणमनुचिन्तनमनतिचित्रतया ननु तावदेव निववृते । पश्यामि यावदसितोत्पलजिष्णुनेत्रा म.रभङ्गुरतरङ्गविलासरङ्गैः । लावण्यपूरमभितो भवनं किरन्ती कान्तामशेषजनलोचनचन्द्रिकां ताम् । अहो अहोरूपतेयं तस्याः। (ग) स्वामिपाद अतिमात्रप्रज्वलितकोपानलस्फुलिङ्गशकलप्रसरणमात्रेण कबलीक्रियमाणत्रिभुवनहृदयधैर्चा अपि योग्यस्थलस्वयंप्रवर्तमानकरुणानिष्यन्दिहृदयाः खलु युष्मादृशा महापुरुषाः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy