SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ विलास. ६] नाटकप्रकरणम्। मागधा-ततश्च । स्वेनैव निश्चितफलं स्वमं कथयन्निजाप्तवर्याय । विस्मयपरवशमनसा प्रशंसितस्तेन नन्दति नरेन्द्रः॥ नैषधः-स्थाने सुस्वमस्यान्यत्र सङ्कमणमभ्युदयाय, [अपि] विज्ञायते स्वमरहस्यम् ? मागधः अभिनवयवनव्याङ्करनद्धान्तराल. च्छ(स्थ)ल[जकमलकम्रां काश्चिदम्लानमालाम् । अतिशबलित (अदिशदलिक ?) नेत्रो नञ्जभूपालमौले रखिलभुवनरक्षास्वैरसज्जे कराब्जे ॥ अनेनोपक्षिसार्थस्यान्यत्र न्यासात् परिन्यासः । 'बीजनिष्पत्तिकथनं परिन्यास इतीर्यते ।' नैषधः-कथमवधारितफलोयं स्वमः ? मागधः-कणे एवमिव इति कथयति । नैषधः-(सानन्दौत्स्क्यं ) तत्सरभसमेव । मनोरथं प्राप्य महेश्वरस्य प्रसादभूना प्रथितप्रभावः । कुलप्रतिष्ठां कुतुकैश्च तन्वन् नक्तन्दिवं नन्दतु नञ्जभूपः । अनेनोपक्षिप्तार्थतत्त्वनिर्णयाद्यक्तिः । ___ 'समप्रयोजनानां हि निर्णयो युक्तिरिष्यते' भवतु वेदानी महाराजः।। मागधः-एवं हि जनाः कथयन्ति-अत्रान्तरे मृगयाविनोदं चिरादेवाभिलषता सेनापतिना वीरसेनेन समुत्साहितः ककुगिरिपरिसर एव निर्वतितमृगयाविहारक्रमः तदेतावतः समयस्य निवर्तत इति । अग्रतोऽवलोक्य-वयस्य पश्य कौतुकम् । मिलत्खलीनेन करव्येन पल्याणमालम्ब्य विलोलचूडः । मिथो मिलज्जानुयुगं तुरङ्गं कोऽयं समारुह्य समीपमेति ॥ नैषधः-अमुना किल केनापि राजकीयेन द्विजेन शिबिरतः प्रभुसमीपमुपसरता भवितव्यम् । तदावामप्यमुमेवानुसरन्तौ विभुसमीपं प्रतिपालयावः। (इति निष्क्रान्तौ) शुद्धविष्कम्भः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy