________________
विलास. ६]
नाटकप्रकरणम्।
मागधा-ततश्च ।
स्वेनैव निश्चितफलं स्वमं कथयन्निजाप्तवर्याय ।
विस्मयपरवशमनसा प्रशंसितस्तेन नन्दति नरेन्द्रः॥ नैषधः-स्थाने सुस्वमस्यान्यत्र सङ्कमणमभ्युदयाय, [अपि] विज्ञायते स्वमरहस्यम् ? मागधः
अभिनवयवनव्याङ्करनद्धान्तराल.
च्छ(स्थ)ल[जकमलकम्रां काश्चिदम्लानमालाम् । अतिशबलित (अदिशदलिक ?) नेत्रो नञ्जभूपालमौले
रखिलभुवनरक्षास्वैरसज्जे कराब्जे ॥ अनेनोपक्षिसार्थस्यान्यत्र न्यासात् परिन्यासः ।
'बीजनिष्पत्तिकथनं परिन्यास इतीर्यते ।' नैषधः-कथमवधारितफलोयं स्वमः ? मागधः-कणे एवमिव इति कथयति । नैषधः-(सानन्दौत्स्क्यं ) तत्सरभसमेव ।
मनोरथं प्राप्य महेश्वरस्य प्रसादभूना प्रथितप्रभावः ।
कुलप्रतिष्ठां कुतुकैश्च तन्वन् नक्तन्दिवं नन्दतु नञ्जभूपः । अनेनोपक्षिप्तार्थतत्त्वनिर्णयाद्यक्तिः ।
___ 'समप्रयोजनानां हि निर्णयो युक्तिरिष्यते' भवतु वेदानी महाराजः।।
मागधः-एवं हि जनाः कथयन्ति-अत्रान्तरे मृगयाविनोदं चिरादेवाभिलषता सेनापतिना वीरसेनेन समुत्साहितः ककुगिरिपरिसर एव निर्वतितमृगयाविहारक्रमः तदेतावतः समयस्य निवर्तत इति । अग्रतोऽवलोक्य-वयस्य पश्य कौतुकम् ।
मिलत्खलीनेन करव्येन पल्याणमालम्ब्य विलोलचूडः । मिथो मिलज्जानुयुगं तुरङ्गं कोऽयं समारुह्य समीपमेति ॥
नैषधः-अमुना किल केनापि राजकीयेन द्विजेन शिबिरतः प्रभुसमीपमुपसरता भवितव्यम् । तदावामप्यमुमेवानुसरन्तौ विभुसमीपं प्रतिपालयावः।
(इति निष्क्रान्तौ) शुद्धविष्कम्भः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com