SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ नजराजयशोभूषणम्। [विलास. ६ 'श्रुतेर्यथैव प्रणवो मुखतां प्रतिपद्यते। प्रधानस्य प्रबन्धस्य तथा प्रस्तावना मता ॥' ततः प्रविशतो बन्दिनौ । एक:-सखे नैषध, निषधमगधदेशाभ्यामागतावावामधुना कतमस्मिन्वसुघावलये वर्तावहे। अन्यः-सखे मागध, महीशूरमण्डलमण्डनायमानककुगिरिपरिसर एव। प्रथमः-(सौत्सुक्यम् ) तर्थचिरेण । यस्य प्रतिक्षणविशेषफलप्रदान चिन्तामणिः परशिवे दृढभक्तिरास्ते । स्निह्यन्ति यत्र सुगुणाः स च नञ्जभूपो दिष्टयाऽऽवयोनयनकौतुकमादधीत ॥ तत्र प्रतिक्षणविशेषफलेत्यनेन बीजभूतस्य कस्य चिदर्थस्योपक्षेपादुपक्षेपः। 'उपक्षेपस्तु गूढस्य बीजस्य न्यास इष्यते ।' द्वितीयः-सखे मागध, सत्यमुक्तं 'प्रतिक्षणविशेषफलप्रदानचिन्तामणिः शिवभक्तिरस्येति । अत एवाकर्णितमर्धपद(ध ?)एव मया किमपि कौतुकम् । नैषधः-कथमिव मागधः-शृणु सामाद्युपायैः स्ववशोपनीतं राज्यं समग्रं सचिवे निधाय । चूडेश्वरं नूतनपुर्यधीशं प्रणन्तुमागानगरानरेन्द्रः ॥ तत्रहि स देवोऽपि महीजानेस्त्रियामासु तिसृष्वपि ।' प्रसादमतनोदेव स्वमेष्वेकफलप्रदम् ॥ अनेन स्तोकोपक्षिसार्थस्य बहूकरणात् परिकरः । 'तद्बहूकरणं वाक्यैरुक्तः परिकरो बुधैः । इति नैषधः-अहो तिसृष्वपि रजनीषु संवादः स्वमानाम्, अहो वत्सलता च देवस्य। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy