SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ विलास. ६ ] नाटकप्रकरणम् । सूत्र० - हर्षपरवशस्तर्हि विस्तृतेनैव चक्षुषा शृणोमि । एतदसत्प्रलापो नामाङ्गम् । पारि० 'असम्बन्धकथाप्रायो ऽसत्प्रलापो यथोत्तरः । '०-भाव कान्तेव कोमलगुणा सरसालङ्काररञ्जिताऽप्येषा | गीतिः कर्णरसायनमथ कथमेनां तु चक्षुषा पिबसि ॥ सूत्र० - अरे रसानुभावस्य दवीयानसि । सुखविस्तारितदृशो निश्चलभ्रूलता जनाः । यामाकण्यैव नन्दन्ति गीतिं तां रसिका विदुः ॥ एतद्दोषस्य गुणत्वारोपणं मृदवं नामाङ्गम् । 'दोषा गुणा गुणा दोषा यत्र स्यान्मृदवं मतम् ।' भवतु गीतार्थमवधास्यामि । नेपथ्ये गीयते । मअणस्स भुवणजहणो विहुणो विअअं दिअन्देसु । गाइस्सन्दो दाणि अलिनो अहिअंति कुरवअवणन्तम् । 0 सूत्र ० - अये ज्ञातं वसन्त समयमधिकृत्य प्रवर्तमाना कयोश्चिद्वैदेशिकयोर्वन्दिनोः प्रावेशिकी ध्रुवेयम् । ९१ नेपथ्ये—साधु भणितम् । एतत्सूत्रधारोक्तार्थानुसरणात्कथोद्धातो नामाङ्गम् । 0 सूत्र ० - नेपथ्याभिमुरवमवलोक्य, आः समागतावेव वन्दिनौ । तथाहिकर्णाग्रप्रविलम्बिचञ्चलबृहन्मुक्ताफलश्रीभर व्यालि सैककपोलगर्भविलसत्ताम्बूलखण्डोत्करैः । स्वर्णोष्णीषविराजितोरुशिरसौ कौसुम्भसंव्यानिनावेतावायतखगराजितभुजावग्रे समागच्छतः ॥ अयं प्रयोगातिशयः । तदनयोरवनिपतिसभां प्रविशतोरभिनवभोगावलीनिशमनेन श्रवणानन्दमनुभवावः (इति निष्क्रान्तौ) प्रस्तावना (छा ) मदनस्य भुवनजयिनो विभोर्विजयं दिगन्तेषु । गास्यन्त इदानीं अलिनोऽभियान्ति कुरवकवनान्तम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy