SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ९०. नजराजयशोभूषणम्। [विलास.६ यत्रान्योन्यसमालापो बिधोद्धात्यं तदुच्यते ॥ पारि०-(सप्रमोदम् ) चिराय मर्त्यवस्तुषु महापुरुषचरितमभिनेव्यत इत्यलङ्कतमस्मन्नृत्यपाण्डित्यम् । एतत्प्रकृतावलगनादवलगितम् । 'प्रस्तुतेऽन्यत्र वा यत्स्यात्तच्चावलगितं विधाः ॥ इति ॥ किच-सर्व संघटितमस्मद्भागधेयेन, तथाहि सुरभिमुचः कविवाचः सभा च सारल्यरञ्जितप्रतिभा। प्रथितं नृत्तकलासु प्रागल्भ्यं किमपि चास्माकम् ॥ सूत्र-तर्हि भवानेव मद्गृहिणी। एतद्वशोधि(दि ?)तं ख(ग?)ण्डम् । यप्रकृतवेगोक्तं ख(ग?)ण्डं तदिति कीर्त्यते । पारि०-(विहस्य) नहि नहि सा पुनर्यवनिकायां धुवां गायति । अहं पुनरेको नटोऽस्मि । सूत्र-अरे श्रोतव्यशेषं न शृणोषि । तर्हि भवानेव मद्गहिणीसोदरेण रङ्गतरङ्गेण कृत(ति ?)नायिकायाश्चन्द्रकलायाः भूमिकां परि ग्राहयत्विति। एतद्गण्डस्य समर्थनादवस्यन्दितम् । 'यथोक्तस्पान्यथा व्याख्या यत्रावस्यन्दितं हि तत् ।' पारि०-अथ भाव एव परिजिघृक्षति वर्णिकां वल्लभस्य । एतत्परिहासात्मा व्याहारो नामाङ्गम् 'अन्यार्थमेव व्याहारो हास्यलोभकरं वचः। सूत्र-प्रागेव नियुक्तस्तत्र मदनुजन्मा विलासशेखरः । (नेपथ्ये कर्ण दत्त्वा) किंवा केलिशुकालापः किंवा कोकिलनिस्वनः । किं शारिकामदुरवः किमेतदवकर्ण्यते ॥ एतदनेकार्ययोजनं त्रिगतं नामाङ्गम् । 'श्रुतिसाम्यादनेकार्ययोजनं त्रिगतं मतम् ।' पारि०-भाव प्रागेव कथितं खल्वार्या ध्रुवां गायतीति । १ तर्हि चिराय CL. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy