SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ विलास. ६ ] नाटकप्रकरणम् । पारि० - आः स एव यः किलाभिनवपरमशिवावतारस्य शिवरामसुधीमणेस्तनयः शास्त्रसाहित्ययोरपि नितान्तनिष्णात इति प्रथितः, यत्र खल्वयं प्रौढकवीनां द्राक्षाक्षौद्रयोरुक्तिप्रत्युक्तिरूपो वाग्विलासः । सूत्रधारः - कथमिव । पारिपार्श्वक: द्राक्षे किं वलसे वने वद ननु क्षौद्र त्वमप्यत्र किं लज्जेऽहं नरसिंहसूरिकवितामाधुर्यतः साऽप्यहम् । मित्रं नः क मरन्द एष कमले त्रिस्रोतसस्तत्कथं तद्वाग्वेगजितैव साऽपि गगने लीनेति हि श्रूयते ॥ एषा प्रश्नोत्तररूपा वाक्केलिः । वाक्केलिः कथ्यते प्राज्ञैरुक्तिप्रत्युक्तिरूपिणी । सूत्र० - अये किमिदं विस्मृतं भवता यत्किल कृतिनायकसमक्षमेव वर्णितं सकलकलाकुशलमतिना सरसकविचक्रवर्तिना काशीपति सुधीमणिना । पारि० - कथं विस्मर्यते, इदं हि श्रीनञ्जराजो नवभोजराजो नृसिंहरिर्नवकालिदासः । परस्परान्तस्थितभावरीतिर्विज्ञायते येन परस्पराभ्याम् ॥ इति ॥ सूत्र ० - तत्कविसमक्षमेव कृतिनायकेन कलुलेकुल चिरन्तन सुकृतपरिपाकेन स्वकपोलकल्पितसङ्गीतगङ्गाधराद्यनेकप्रबन्धाभिनयदर्शनजनितकौतुकेन कर्णाटक भाषा विरचित हालास्यचरितशिवभक्तविलासादिबहुविधप्रबन्धसमुदयेन सकलविद्वज्जनभागधेयेन नूतनभोजराजेन नञ्जराजेन सबहुमानाहूतः समादिष्टोऽस्मि सरसकवीनां पुरतोगणनीयस्यास्य सेनगर (2) कुलेन्दोर्नरसिह्माभिधविदुषः कृतिरियमभिनीय दर्शनीयेति । पारि० -अहो प्रभुरपि प्रबन्धनिर्मातेत्यदृष्टचरं सङ्गतं श्रीसरस्वत्योः सूत्र ० - अये सार्वजनीनी खल्वियं प्रश्नोत्तरोक्तिः । विरुद्धयोः श्रीभारत्योरेकत्र घटनं कुतः । वैदग्ध्यात्तत्तु तस्यैव कलुनञ्जभूपतेः ॥ इति ॥ इत्येतदुद्घात्यकम् 'गूढार्थपदपर्याय माला प्रश्नोत्तरस्य वा । १ सगर CL. १२ ८९ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy