SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ नजराजयशोभूषणम् । [विलास.६ निजमकुटचन्द्रिकाकिरणनिरन्तरनिर्निद्राणभवनारामकुमुदिनीविलसदुत्पलपुटनिरर्गलविनिर्गलदमन्दमकरन्दनिष्यन्दकुल्यासहस्रनिपातनितान्तमधुरिममेदुरसलिलकपिलातटविलासविविधविभवसरलगरलनगराभरणायमानस्य भगवतो गरलपुरीश्वरस्य वसन्तोत्सवे ससन्तोषमशेषदिगन्तोपसेदुषाममीषां रसिकविदुषामभिलषितसम्पादन एव विगलितवेद्यान्तरं किमपि कुतूहलम् । पारि०—कुलव्रतं हि नामैतद्भावस्य यदहर्निशं सति कार्यसहस्त्रेऽपि सतामेवानुरञ्जनम् । एतन्मियः स्तोत्रं प्रपञ्चो नामाङ्गम् । 'असद्भूतं मिथः स्तोत्रं प्रपञ्चः परिकीर्त्यते । भवतु कथति ?)मस्मिन्नेषामभिलाषः। सूत्र-रूपकं विलोकनीयमिति । पारि-रूपकाणामनेकतया न खल्ववगच्छामि कीदृशं तत् । सूत्र-प्रौढरगूढार्थरसानुबन्धैर्गिरां क्रमैरद्भुतसंविधानः । ___ रम्येतिवृत्तैरपि विस्मयानामुद्घाटक नाटकमेव नव्यम् ॥ पारि०-अहो प्रबन्धस्य नूतनता, तादृग्गुणवत्ता च, किं नाम तत् ? । सूत्र-प्राज्ञ त्वमेव कथय । का नाम मूर्ना विधे हरेण किं वा मनो रञ्जयते जनानाम् । पारि-किञ्चिद्विमृश्य-आः परिज्ञात एव भावस्य प्रश्नवयसमुदायार्थः, चन्द्रकलाकल्याणमिति । एषा निगूढार्था नालिका 'प्रहेलिकात्मा गूढार्था नालिका परिकीर्त्यते ।' भवतु कस्य विदुषो वदनारविन्दमकरन्दायमानोऽयमभिनवसूक्तिनिष्यन्दः। एतद्वाक्याधिक्यमधिबलम्-- _ 'अन्योन्यवाक्याधिक्योक्तिः कथ्यतेऽधिबलं बुधैः।' सूत्र--(विहस्य) कविं तमेनं त्रिजगत्प्रकाशं रविं च जानाति जनो न को वा तर्हि शृणु स जयतु नरसिमकवियत्कवितास्वादमुदितहृदयस्य । ___ अघ्ररामृतमपि सुहरामादरपदमीषदिन सन्तनुते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy