SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ नखराजयशोभूषणम् । [विलास.६ शेष नाटकवत्सर्व स डिमः परिकीर्तितः।' अथ व्यायोगः 'यत्र ख्यातेतिवृत्तं स्यादुद्धतो नायको मतः । गर्भावमर्शसाजा(राहि)त्यं डिमवद्रसपोषणम् ॥. ... ... एकवासरकार्यश्च स व्यायोगो महारणः ॥ अथ समवकारः-- 'यत्रामुखं नाटकवत् सन्धयो मर्शवर्जिताः। --- नेतारो द्वादश पृथकूफला देवासुरादयः॥ वीरप्रधानाश्च रसास्त्रयोऽङ्काः त्रिषु च क्रमात् । वस्तुस्वभावदेवादिकृताः स्युः कपटास्त्रयः॥ पुररोघरणाम्यादिनिमित्ता विद्रवास्त्रयः। धर्मार्थकामानुगुणास्तिस्रः शृङ्गाररीतयः ॥ प्रथमेऽङ्के निबद्धव्या कथा यामत्रयावधिः । यामावधिर्दितीयेऽङ्के तृतीयेऽद्वेर्धयामिका ॥ असौ समवकारः स्यादीथ्यङ्गैः कैश्चिदन्वितः।' अथ वीथी 'यत्र भाणवदङ्कानां कृप्तिर्वृत्तिस्तु कैशिकी। शृङ्गारः परिपूर्णत्वात् सूचनीयोऽतिभूयसा ॥ उद्धात्यादीनि चाङ्गानि सा वीथिरिति सम्मता।' [अथाङ्कः] 'यत्रेतिवृत्तं प्रख्यातं प्रधानं करुणो रसः॥ स्त्रीणां विलापो वाग्युद्धं नेतारः प्राकृता जनाः। भाणवत्सन्धिवृत्त्यादि स उत्सृष्टाङ्कसंज्ञितः ॥ अथेहामृगः मिश्रमीहामृगे वृत्तं चतुरङ्क त्रिसन्धिकम् । मर्त्यदिव्यौ च नियमानायकप्रतिनायकौ ॥ धीरोद्धतौ स्त्रियं दिव्यां हर्तुकामौ च कामुकीम् । अवधं युद्धमन्योन्यमाभासरसयोस्तयोः।।' Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy