SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ विकास..] नाटकप्रकरणम् । पूर्ण प्रकृतिरन्येषामाधिकारिकवृत्तिमत् ॥ वीरशृङ्गारयोरेकः प्रधानं यत्र वर्ण्यते । प्रख्यातनायकोपेतं नाटकं तदुदाहृतम् ॥ अथ प्रकरणम् 'उत्पाोनेतिवृत्तेन धीरशान्तप्रधानकम् । शेषं नाटकतुल्याङ्गं भवेत्प्रकरणं हि तत् ॥' अथ भाणम 'भारतीवृत्तिभूयिष्ठं शौर्यसौभाग्यसंस्तवैः । सूच्यते वीरशृङ्गारौ विटेन निपुणोक्तिना ॥ कल्पितेनेतिवृत्तेन धूर्तचारित्रवर्णनम् । एकोऽङ्को मुखनिर्वाही यत्र भाणः स सम्मतः ॥' अथ प्रहसनम-- 'यत्र सन्ध्यवृत्यङ्गवर्णनं भाणवन्मतम् । हास्यो रसः प्रधानं स्याद्भवेत्प्रहसनं हि तत् ॥ सङ्कीर्ण वैकृतं शुद्धमिति तत्रिविधं मतम् । यद्वीथ्यङ्गैः समाकीर्ण सङ्कीर्ण धूर्तसंकुलम् ॥ कामुकादिवचोवेषैः षण्डकञ्चुकितापसैः । प्रवासाभिनयप्रायं विकृतं तत्प्रकीर्त्यते ॥ पाषण्डविप्रप्रकृति चेटीचेटविटाकुलम् । वेषभाषादिसहितं शुद्ध हास्यवचोन्वितम् ॥ अथ डिमः-- 'यत्र वस्तु प्रसिद्ध स्थावृत्तयः कैशिकी विना । नेतारो देवगन्धर्वा यक्षरक्षोमहोरगाः ॥ भूतप्रेतपिशाद्याः षोडशात्यन्तमुद्धताः। हास्यशृङ्गाररहिता रसा रौद्रप्रधानकाः । चत्वारोऽङ्काः सन्धयश्च चत्वारो मर्शवर्जिताः। महेन्द्रजालसङ्गामसूर्यचन्द्रग्रहादयः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy