SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ नजराजयशोभूषणम् । [विलास.६ नान्दीश्लोके तथा यत्नः कर्तव्यः कविभिः सदा। 'यत्राष्टभिर्दादशभिरष्टादशभिरेव वा ॥ द्वाविंशत्या पदैर्वाऽपि सा नान्दी परिकीत्यते ।' महावीरचरिते अष्टपदा नान्दी । उत्तररामचरित दादशपदा नान्दी। बालरामायणे बाविंशतिपदा नान्दी । एवमष्टादशपदापि द्रष्टव्या। केचित्तु नाम(भि)मन्यन्ते पदानां नियमं बुधाः । यद्यप्यङ्गानि भूयांसि पूर्वरङ्गस्य नाटके ॥ तेषामवश्यकर्तव्या नान्दी नन्दीश्वरप्रिया। पूर्वरङ्गस्वरूपञ्च 'यन्नाव्यवस्तुनः पूर्व रङ्गविघ्नोपशान्तये । कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स कीर्तितः ॥' नान्द्यन्ते कर्तव्यमाह रङ्गं प्रसाद्य मधुरैर्वाक्यैः काव्यार्थसूचकैः । निरुक्तपदनान्दीभिः सूत्रधारे विनिर्गते ॥ प्रविश्य तहदपरः ततः पञ्चपदी व्रजेत् । ऋतुं कश्चिदुपादाय भारती वृत्तिमाश्रयेत् ॥ नाटकस्यैव मुख्यैषा प्रक्रियेति बुधा जगुः। प्रसन्नपदगम्भीरसंस्कृतेनैव योजिता । भारती वृत्तिरिति तां विदुर्नाव्यविशारदाः ॥ अथ नाटके वानि-- 'दूराध्वानं तथा युद्धं राज्यदेशाद्युपद्रवम् । संरोधं भोजनं लानं सुरतं चानुलेपनम् ॥ अम्बरग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत् ।' तदुपयुक्तानां षण्णां भाषाणामपि विनियोगः पाठयन्तु संस्कृतं नृणामनीचानां महात्मनाम् । स्त्रीविदूषकशूद्राणां नियतं प्राकृतं वचः॥ एवं भाषापञ्चकस्यापि विनियोगो द्रष्टव्यः अथदशरूपकविवरणम् 'साङ्गैर्मुखप्रतिमुखगर्भमर्शोपसंहतैः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy