SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ विलास. ६ . ] नाटकप्रकरणम् । पात्रप्रवेशो यत्रायं प्रयोगातिशयो मतः ।' नैटादीनां स्थलस्वरूपम् - कुशीलवकुटुम्बस्य स्थली नेपथ्यमुच्यते । नेपथ्यजं तु नैपथ्यं तच्चतुर्विधमुच्यते ॥ पुस्तभूषाङ्गरचनासञ्जीवा इति भेदतः । पुस्तं प्रदर्शितं नाटये विमानाद्रिवनादिकम् ॥ कुण्डलादि सुभूषाऽङ्गरचना त्वनुलेपनम् । सञ्जीवः पशुपक्ष्यादिप्राणिनां रूपधारणम् || 'वीथ्यङ्गान्यामुखाङ्गत्वात्कथ्यन्तेऽत्र स्वरूपतः । उद्धात्यकावलगिते प्रपञ्चत्रिगते छलम् ॥ वाक्केल्यधिबलं गण्डमवस्यन्दितनालिके । असत्प्रलापव्याहारमृदवानि त्रयोदश ॥' तेषां न्यासो विवक्षातः संमतो लास्यवेदिनाम् । तेषां मध्ये यथासंभवं कानिचित्प्रस्तावनायां प्रयोज्यानि । प्रस्तावनाङ्गध्रुवानान्दीस्वरूपं निरूप्यते । सूचनी पात्रभेदानां रसभावप्रकाशिनी । या गीतिः सा ध्रुवा तुल्यसंविधान विशेषणा ॥ तुल्यसंविधाना तुल्यविशेषणा चेत्यर्थः । नान्दीलक्षणमाह प्रारम्भे सर्वनाट्यानां नान्दी कार्या शुभावहा । आशीर्नमस्क्रियावस्तुनिर्देशान्यतमात्मिका ॥ अर्थतश्शब्दतो वाऽपि मनाक्काव्यार्थसूचिका । चन्द्रनामाङ्किता प्रायो मङ्गलार्थपदोज्वला || शङ्खचक्रसिताम्भोजको ककैरवशंसिनी । यथैव चन्द्रसंबन्धो लक्ष्यते व्यज्यतेऽपि वा ॥ ८३ + नटादीनां स्थलस्वरूपमित्यादेः प्राणिनां रूपधारणमित्यन्तस्य ग्रन्थस्य आमुखाङ्गत्रयं निरूप्यत इत्यस्य प्राक् पाठः समुचितः, आमुखाङ्ग निरूपणप्रकरणेऽत्र तु न सङ्गत इति प्रतिभाति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy