SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ८२ नञ्जराजयशोभूषणम् । स्वकार्य प्रस्तुताक्षेपि चित्रोक्तया यत्तदामुखम् ॥ प्रस्तावना वा तत्र स्यात्कथोद्घातः प्रवर्तकम् । प्रयोगातिशयश्चेति त्रीण्यङ्गान्यामुखस्य हि ॥' सूत्रधारलक्षणं - ८ 'आसूत्रयन् गुणान्नेतुः कवेरपि च वस्तुनः । रङ्गप्रसाधनप्रौढः सूत्रधार इतीरितः ॥' नटीलक्षणम् - 'चतुरातोद्यभेदज्ञा तस्कलासु विशारदा । करणाभिनयज्ञा च सर्वभाषाविचक्षणा ॥ नटानुयोक्री नृत्येषु नटस्य गृहिणी नटी । मारिषः पारिपार्श्वकः, तल्लक्षणं तु 'भरतेनाभिनीतं यो भावं नानारसाश्रयम् । परिष्करोति पार्श्वस्थः स भवेत्पारिपार्श्वकः ॥' विदूषकलक्षणम् ' तदात्वप्रतिभो नमचतुर्भाव (र्भेद) प्रयोगवित् । वेदविन्नर्मवादी यो नेतुः स स्याद्विदूषकः ॥' सूत्रधारकार्यमाह - निवेशनं प्रयोज्यस्य निर्देशो देशकालयोः । काव्यार्थसूचकैः सूक्तैः सभायाश्चित्तरञ्जनम् ॥ कविकाव्यनटादीनां प्रशंसा तु प्ररोचना । आमुखाङ्गत्रयं निरूप्यते - 'स्वेतिवृत्तसमं वाक्यमर्थ वा यत्र सूत्रिणः । गृहीत्वा प्रविशत्पात्रं कथोदघातो द्विधैव सः ॥ प्रस्तूयमानकालस्य गुणवर्णनया स्वतः । प्रविशेत् सूचितं पात्रं यत्र तत्स्यात्प्रवर्तकम् । एषोऽयमित्युपक्षेपात् सूत्रधारप्रयोगतः ॥ : Shree Sudharmaswami Gyanbhandar-Umara, Surat [ विलासः ६ www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy