________________
नाटकप्रकरणम् ।
अविभागेन सर्वेषां भाविन्य प्रवेशनम् ॥ पात्रेणाई प्रविष्टेन केवलं सूचितत्वतः ।
भवेदकादबाह्यत्वमङ्कास्याङ्कावतारयोः ॥ अङ्कावतरणम्
'यत्र स्यादुत्तराङ्कार्थः पूर्वाङ्कार्थानुसङ्गतः ।
असूचिताङ्कपात्रं तदङ्कावतरणं मतम् ॥' प्रवेशक:
यन्नीचैः केवलं पात्रै विभूतार्थ सूचना ।
अङ्कयोरुभयोर्मध्ये स विज्ञेयः प्रवेशकः ॥ अथासूच्यम्
असूच्यं तु शुभोदात्तरसभावनिरन्तरम् । असूच्यं तद्विधा दृश्यं श्राव्यं चायं तु दर्शयेत् ॥ विधा द्वितीयं स्वगतं प्रकाशं चेति भेदतः। सर्वप्रकाशं सर्वेषां स्थितानां श्रवणोचितम् ॥ त्रिधा जनान्तमपवारितमाकाशभाषितम् । 'त्रिपताकाकरण स्यादपवार्यान्तरा कथाम् ॥ अन्यस्या(न्योन्या)मन्त्रणं यत्स्याजनान्ते तजनान्तिकम् । रहस्यं कथ्यतेऽन्यस्य परावृत्यापवारितम् ॥ किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् । श्रुत्वेवानुक्तमप्येकः तत्र ह्याकाशभाषितम् ॥'
सूच्यं तु सूचयित्वैवं दृश्यमकैः प्रदर्शयेत्। अङ्कस्वरुपं निरूप्यते
'प्रत्यक्षनेतृचरितो बिन्दुव्यक्तिपुरस्कृतः । अङ्को नानाप्रकारार्थसंविधानरसाश्रयः॥
प्रयुक्तैः पञ्चषैः पात्रैस्तेषामन्ते च निर्गमः। अथ तदङ्गमामुखं निरूप्यते
'सूत्रधारो नटी ब्रूते मारिषं वा विदूषकम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com