________________
नजराजयशोभूषणम् ।
[ विलास. ६ श्यार्थप्रकाशनम् , अभिनयरागसमृद्धिः, चमत्कारकारित्वम् , इतिवृत्तविस्तर. वेति। इतिवृत्तं वस्तु।
नाटके विविधं वस्तु सूच्यासूच्यप्रभेदतः । रसहीनं भवेद्यत्तु तत्सूच्यमिति कथ्यते ॥
यस्ति नीरसं तत्तु सूचयेत्सूचकास्त्वमी। तत्र
सूच्यस्य सूचनोपायाः पञ्चधा परिकीर्तिताः । विष्कम्भचूलिकाङ्कस्याङ्कावतारप्रवेशकाः ॥ नाठ्यक्रमविवक्षास्ते यथासंभवमीरिताः । अमुख्यपात्ररचितः सङ्केपैकप्रयोजकः । स शुद्धो मिश्र इत्युक्तो मिश्रः स्यानतु मध्यमैः ।। सोऽयं चेटीनटाचार्यसल्लापः परिकीर्तितः। शुद्धः केवलमध्योऽयमेकानेककृतो द्विधा ॥
शुद्धस्तु संस्कृतप्रायः मित्रं प्राकृतमिश्रतः । अथ चूलिका
वन्दिमागधसूतायैः प्रतिसीरान्तरस्थितैः । अर्थोपक्षेपणं यत्र क्रियते सा हि चूलिका ॥
चूलिका खण्डयुक्ता स्यात् द्विविधा परिकीर्त्यते खण्डयुक्ता-खण्डचूलिकेत्यर्थः।
पात्रैर्यवनिकासंस्थैः केवलं या तु निर्मिता । आदावङ्कस्य मध्ये च चूलिका परिकीर्तिता ॥ प्रवेशनिर्गमाभावादियमङ्कात् बहिर्गता । रङ्गनेपथ्यसंस्थायिपात्रसल्लापविस्तरैः । आदौ केवलमङ्कस्य कल्पिता खण्डचूलिका ॥
प्रवेशनिर्गमाप्राप्तेरियमङ्कात् बहिर्गता । अङ्कास्याम्
पूर्वाङ्कार्थे संप्रविष्टैरुत्तराङ्कार्थसूचनम् । १ रनेत्यादेः सार्धश्लोकस्य पाठः OL. पुस्तके दृश्यते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com