SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ नजराजयशोभूषणम् । [ विलास. ६ श्यार्थप्रकाशनम् , अभिनयरागसमृद्धिः, चमत्कारकारित्वम् , इतिवृत्तविस्तर. वेति। इतिवृत्तं वस्तु। नाटके विविधं वस्तु सूच्यासूच्यप्रभेदतः । रसहीनं भवेद्यत्तु तत्सूच्यमिति कथ्यते ॥ यस्ति नीरसं तत्तु सूचयेत्सूचकास्त्वमी। तत्र सूच्यस्य सूचनोपायाः पञ्चधा परिकीर्तिताः । विष्कम्भचूलिकाङ्कस्याङ्कावतारप्रवेशकाः ॥ नाठ्यक्रमविवक्षास्ते यथासंभवमीरिताः । अमुख्यपात्ररचितः सङ्केपैकप्रयोजकः । स शुद्धो मिश्र इत्युक्तो मिश्रः स्यानतु मध्यमैः ।। सोऽयं चेटीनटाचार्यसल्लापः परिकीर्तितः। शुद्धः केवलमध्योऽयमेकानेककृतो द्विधा ॥ शुद्धस्तु संस्कृतप्रायः मित्रं प्राकृतमिश्रतः । अथ चूलिका वन्दिमागधसूतायैः प्रतिसीरान्तरस्थितैः । अर्थोपक्षेपणं यत्र क्रियते सा हि चूलिका ॥ चूलिका खण्डयुक्ता स्यात् द्विविधा परिकीर्त्यते खण्डयुक्ता-खण्डचूलिकेत्यर्थः। पात्रैर्यवनिकासंस्थैः केवलं या तु निर्मिता । आदावङ्कस्य मध्ये च चूलिका परिकीर्तिता ॥ प्रवेशनिर्गमाभावादियमङ्कात् बहिर्गता । रङ्गनेपथ्यसंस्थायिपात्रसल्लापविस्तरैः । आदौ केवलमङ्कस्य कल्पिता खण्डचूलिका ॥ प्रवेशनिर्गमाप्राप्तेरियमङ्कात् बहिर्गता । अङ्कास्याम् पूर्वाङ्कार्थे संप्रविष्टैरुत्तराङ्कार्थसूचनम् । १ रनेत्यादेः सार्धश्लोकस्य पाठः OL. पुस्तके दृश्यते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy