________________
विलास. ६]
नाटकप्रकरणम् ।
द्युतिः प्रसङ्गश्छलनम् व्यवसायो निरोधनम् ।
प्ररोचना विचलनमादानं च त्रयोदश ॥' निर्वहणसन्धिमाह
'बीजवन्तो मुखाद्य विप्रकीर्णा यथायथम् ।
एकार्थमुपनीयन्ते यत्र निर्वहणं मतम् ॥' मुखाद्या इति । मुखसन्ध्यादीनामर्था इत्यर्थः ।
चतुर्दशाङ्गान्यस्यैव कार्येष्टागमयोगतः । 'सन्धिर्विरोधो ग्रथनं निर्णयः परिभाषणम् । प्रसादानन्दसमयाः कृति षोपगृहनम् ॥
पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश ।' तल्लक्षणान्यग्रे वक्ष्यन्ते।
एषां निर्देशवैषम्यं क्रमाणामविवक्षया। एषाम्-उपक्षेपादीनां युक्त्युद्भेदसमाधानोपक्षेपाणां प्रकीर्तितम् ।
परिन्यासस्य च तथा तथा परिकरस्य च । आवश्यकत्वमेतेषामङ्गानामाद्यसन्धिका ॥ यथासम्भवमन्येषां प्रयोगः कविसम्मतः। प्रतिमुखसन्धौ प्रगमनवज्रोपन्यासपुष्पाणाम् । परिसर्पस्य च कथयन्त्यावश्यकभावमभियुक्ताः॥ अभूताहरणं मार्गस्तोटकोदाहृतिस्तथा। आक्षेपाधिबले चेति प्रोक्तान्यङ्गानि सूरिभिः ॥ आवश्यकानि सन्धौ तु गर्भाख्ये नाट्यवेदिभिः। विमर्शसन्धावादानव्यवसायप्ररोचनाः । शक्तिश्चावश्यकान्येतान्यङ्गानि कथितानि हि ॥ चतुर्दशापि युक्तानि सन्धौ निर्वहणाहये। अङ्गानां रूपके केऽपि क्रमं नेच्छन्ति सूरयः ॥ इति तस्य महार्हस्य नाटकस्य महात्मभिः ।
चतुष्पष्ठयङ्गसहिताः कीर्तिताः पञ्च सन्धयः ॥ प्रयोजननानि षडेषां भवन्त्यङ्गानाम्-विवक्षितार्थप्रतिपादनम् , प्रका
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com