SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ७८ नजराजयशोभूषणम् । [विलास.६ मुखसन्धिस्वरूपमाह 'मुखं बीजसमुत्पत्तिर्नानार्थरससम्भवा ।' तस्याङ्गानि सूचयति 'अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् । उपक्षेपः परिकरः परिन्यासो विलोभनम् ॥ युक्तिः प्राप्तिः समाधानं निधानं परिभावनम् । उद्भेदभेदकरणानीति द्वादश योजयेत् ॥' तेषां स्वरूपमग्रे वक्ष्यते। प्रतिमुखसन्धिमाह 'लक्ष्यालक्ष्यस्य बीजस्य व्यक्ति प्रतिमुखं मतम् । बिन्दुप्रयत्नानुगमादङ्गान्यस्य त्रयोदश ॥' यथा 'विलासः परिसर्पश्च विधूतं शमनर्मणी । 'नर्मद्युतिः प्रगमनं निरोधः पर्युपासनम् ॥ वज्रं पुष्पमुपन्यासो वर्णसंहार इत्यपि ।' गर्भसन्धिमाह 'गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः । द्वादशाङ्गः पताका स्यान्नवा प्राप्तेस्तु सम्भवः ।' प्राप्तिः-प्रास्याशा। 'अभूताहरणं मार्गो रूपोदाहरणे क्रमः। सङ्ग्रहश्वानुमानं च तोटकाधिबले तथा ॥ उद्धेगसम्भ्रमाक्षेपाः द्वादशाङ्गान्यनुक्रमात् ।' एषां स्वरूपमग्रे वक्ष्यते । विमर्शसन्धिमाह 'गर्भसन्धौ प्रसिद्धस्य बीजस्यार्थावमर्शनम् । हेतुना येन केनापि विमर्शः सन्धिरिष्यते ॥ प्रकरीनियताप्स्युक्तेरङ्गान्यस्य त्रयोदश । अथापवादसंफेटौ विद्रवद्रवशक्तयः॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy