SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ विलास. ६] नाटकप्रकरणम्। ७७ सदानन्दः सत्ववेदी धीरोऽसौ शान्तनायकः । एषु च द्विविधौ प्रोक्तौ नायकप्रतिनायकौ ॥ किश्चिदूनगुणो दुःखी प्रियस्तस्योपनायकः । यथा सुग्रीवादयः। व्यसनी पापकृद्वेष्यो नेता स्यात्प्रतिनायकः । यथा रावणादयः। प्रख्यातमेवेतिवृत्तं नाटके विनियोजयेत् । आरम्भ-यत्न-प्रात्याशा-नियताप्ति-फलागमाः। अर्थावस्था इति प्रोक्ताः पञ्चैता वृत्तवेदिभिः ॥ अथ प्रकृतिपञ्चकम् 'बीजबिन्दुपताकाख्याः प्रकरीकार्यलक्षणाः । अर्थप्रकृतयः पञ्च' सन्धिलक्षणमाह एषां इन्द्धे यथाक्रमम् प्रकृत्यवस्थे मिलिते सन्धिरित्युच्यते बुधैः ॥ एककार्यान्वितानां तु कथांशानां प्रकीर्तिताः । अवान्तरार्थसम्बन्धः सन्धिस्ते पञ्चधेरितः ॥ सन्धि विभजते मुखं प्रतिमुखं गर्भः सावमर्शोपसंहृतिः। यथासङ्खयेन जायन्ते मुखाद्याः पञ्च सन्धयः ।। आरम्भबीजयोः सन्धिर्मुखसन्धिरितीयते । बीजप्रयत्नयोः सन्धिरुक्तः प्रतिमुखाह्वयः ॥ उक्तः पताकाप्राप्त्याशायोगः स्याद्गर्भसन्धिकः । प्रकरीनियतात्योस्तु विमर्शः सन्धिरन्वयः ॥ कार्यस्य च फलप्राप्तः सन्धिनिर्वहणो मतः। निर्वहणोपसंहृतिशब्दौ पर्यायौ । अर्थप्रकृतयश्चोदाहरणप्रदर्शनसमय एव निरूप्यन्ते। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy