SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ७६ नजराजयशोभूषणम् । [विलास. ६ डिमे प्रख्यातवृत्तं स्याद्देवगन्धर्वराक्षसाः। नेतारः स्युः पिशाचाद्याः षोडशैव प्रकीर्तिताः ॥ वीरनाम्नो रसस्यैव प्राधान्यं परिकीर्त्यते । तन्नायकलक्षणमुक्तम् [७५] हास्यशृङ्गारयोश्चानुप्रवेशः कथितो बुधैः । प्रख्यातमितिवृत्तं स्यानेता धीरोडतो रसः॥ वीरः प्रधानो व्यायोगे कथितः सर्वसम्मतः । तन्नायकश्चोक्तः [प्राक् ६५] प्रोक्तं समवकारे तु वृत्तं कल्पितमिष्यते । नेतारो देवदैत्याद्याः द्वादशैवोपयोगिनः॥ वीरो रसः प्रधानः स्यात्प्रख्यातं वस्तु वा भवेत् । वीथ्यां धूर्तविटो नेता कल्पितं वस्तु युज्यते ॥ रसः सूच्यस्तु शृङ्गारः स्पृशेदपि रसान्तरम् । अङ्के प्रख्यातवृत्तं स्याद्रसस्तु करुणो मतः । नेतारः प्राकृता माः कथ्यन्ते नाव्यवेदिभिः ॥ तन्नायकस्तु चिन्तादैन्यश्रमापन्नो जडचित्तोऽप्रतापवान् । विस्मृतः प्राप्तनिवेदो योऽसौ करुणनायकः ॥ प्रसङ्गात् सर्वनायकाः कथ्यन्ते हर्षामर्षान्वितः सर्वदुर्वारो गर्वदुर्वहः । चलचित्तो महोत्साहः कथ्यते रौद्रनायकः ॥ अव्यक्तवचनो दीनो मोहदाहत्वरान्वितः । स्वेदवेपथुसंयुक्तः स्याद्भयानकनायकः ॥ मधुमांसविलिप्साङ्गो भयापस्मारभाववान् । लोलाभि(वि?) लो न्म(म?) दोन्मत्तो बीभत्सरसनायकः । जितेन्द्रियो जितक्रोधः संयुक्तः सात्विकादिभिः॥ + क्रमप्राप्तस्येहामृगस्य निर्देशोत्र विगलितः । १ लोलो OL Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy