SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ विलास. ६ ] तदुक्तम् C वस्तुनेतृर सास्तेषां रूपकाणां हि भेदकाः ।' वस्तु च त्रिविधं प्रोक्तं प्रख्यातोत्पाद्यमिश्रत' । इतिहासनिबद्धं यत्प्रख्यातं तदुदाहृतम् । कविकल्पितमुत्पाद्यं मिश्रं सङ्कीर्णमुच्यते ॥ वस्तुनेतरसा एव भिन्ना रूपकभेदकाः । प्रख्यातमितिवृत्तं स्यात् यत्रोदात्तो हि नायकः ॥ शृङ्गारवीरयोरन्यतरप्राधान्यमुच्यते । इतरेषां रसानां स्यादङ्गत्वेन प्रवेशनम् ॥ एतन्नाटकमित्युक्तं नाट्यशास्त्रविशारदैः । नाटकप्रकरणम् । 'प्रख्यातवस्तुविषयं सर्ववृत्तिरसाश्रयम् । शृङ्गारवीरयोरन्यतरप्राधान्यशोधितम् ॥ प्रकृत्यवस्थासन्ध्यङ्गं पताकास्थानकादिमत् । तन्नायकस्तु विज्ञेयः शृङ्गारी वाऽथ वीर्यवान् ॥' तयोर्लक्षणम् - स्थिरानुरागः सुभगः कलाभिज्ञो विलासवान् । चतुरः कामतन्त्रेषु भृङ्गाररसनायकः ॥ नेता वीर विक्रान्तस्तेजोगाम्भीर्यमानवान् । सततं युद्धसन्नद्धो वीरनायक उच्यते ॥ प्रोक्तं प्रकरणे वृत्तमुत्पाद्यं धीरशान्तकः । नेता रसस्य प्राधान्यं शृङ्गारस्यैव सम्मतम् ॥ तन्नायकलक्षणमुक्तम् [ प्राक् ६ प ] भाणे धूर्तविटः प्रोक्तो नेता शृङ्गारवीरयोः । सूचनामात्र सारत्वं वृत्तमुत्पाद्यमुच्यते ॥ कल्यं प्रहसने कल्प्यं वृत्तं हास्यरसो मतः । पाषण्डतापसप्रख्या नायकाः परिकीर्तिताः ॥ तन्नायकस्तु — चाञ्चल्यवान् पुरोभागी हर्षास्याविवर्धनः । परिहासक्रियादक्षो वागीशो हास्यनायकः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat ७५ www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy