SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ७४ नजराजयशोभूषणम् । [विलास.६ श्रुतिकटुरूपदोषनिराकरणाय सौकुमार्य मतम् । ग्राम्यदोषनिराकरणाय कान्तिः स्वीकृता । अपुष्टार्थनिराकरणायार्थव्यक्तिः । न्यूनाधिकपदनिराकरणाय सम्मितत्वम् । अनुचितार्थनिराकरणायोदात्तता । विसन्धिनिराकरणार्थमौर्जित्यम् । पतत्प्रकर्षनिराकरणाय रीतिरिष्टा । क्लिष्टपरिहाराय प्रसादो मतः । अश्लीलपरिहारार्थमुक्तिः स्वीकृता । च्युतसंस्कारपरिहाराय सौशब्द्यमिष्टम् । प्रक्रमभङ्गनिवृत्त्यर्थ समता मता । परुषदोषनिराकरणाय प्रेयो मतम् । एवं यथासम्भवं केषाश्चिद्दोषपरिहारकत्वेन गुणत्वं वाच्यम् । इति परमशिवावतारशिवरामदेशिकचरणारविन्दानुसन्धानमहिमसमासादितनिःसहायदैनन्दिनप्रबन्धनिर्माणसाहसिकनिखिलविद्वज्जनलालनीयसरससाहितीसम्प्रदायप्रवर्तकनरसिंहकविविरचिते नाराजयशोभूषणे अलङ्कारशास्त्रे रसनिरूपणं नाम पञ्चमोविलासः॥ अथ षष्ठो विलासः करुणारसकल्लोलकलितापाङ्गवीक्षणम् । कन्दर्पजनकं धाम कल्याणानि करोतु नः ॥ अथ निरुक्तरसप्रधानका नाट्यप्रबन्धा निरूप्यन्ते । 'चतुर्विधैरभिनयैः सात्त्विकाङ्गिकपूर्वकैः । धीरोदात्ताद्यवस्थानुकृतिर्नाटयं रसाश्रयम् ॥ भावाश्रयं तु नृत्यं स्यानृत्यं ताललयाश्रयम् । मधुरोडतभेदेन तद्वयं द्विविधं पुनः ॥ लास्यताण्डवभेदेन नाटकाद्युपकारकम् ।' तेन नाटयेन दश रूपकाणि भवन्ति। 'नाटकं सप्रकरणं भाणः प्रहसनं डिमः व्यायोगसमवाकारौ वीथ्यङ्गेहामृगा दश।' इति । रूपयति दर्शयति रसादिकमिति रूपकम् । नाटयाश्रयत्वेन तेषां नाभेदशङ्का। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy