________________
७४ नजराजयशोभूषणम् ।
[विलास.६ श्रुतिकटुरूपदोषनिराकरणाय सौकुमार्य मतम् । ग्राम्यदोषनिराकरणाय कान्तिः स्वीकृता । अपुष्टार्थनिराकरणायार्थव्यक्तिः । न्यूनाधिकपदनिराकरणाय सम्मितत्वम् । अनुचितार्थनिराकरणायोदात्तता । विसन्धिनिराकरणार्थमौर्जित्यम् । पतत्प्रकर्षनिराकरणाय रीतिरिष्टा । क्लिष्टपरिहाराय प्रसादो मतः । अश्लीलपरिहारार्थमुक्तिः स्वीकृता । च्युतसंस्कारपरिहाराय सौशब्द्यमिष्टम् । प्रक्रमभङ्गनिवृत्त्यर्थ समता मता । परुषदोषनिराकरणाय प्रेयो मतम् । एवं यथासम्भवं केषाश्चिद्दोषपरिहारकत्वेन गुणत्वं वाच्यम् ।
इति परमशिवावतारशिवरामदेशिकचरणारविन्दानुसन्धानमहिमसमासादितनिःसहायदैनन्दिनप्रबन्धनिर्माणसाहसिकनिखिलविद्वज्जनलालनीयसरससाहितीसम्प्रदायप्रवर्तकनरसिंहकविविरचिते नाराजयशोभूषणे अलङ्कारशास्त्रे रसनिरूपणं
नाम पञ्चमोविलासः॥
अथ षष्ठो विलासः
करुणारसकल्लोलकलितापाङ्गवीक्षणम् ।
कन्दर्पजनकं धाम कल्याणानि करोतु नः ॥ अथ निरुक्तरसप्रधानका नाट्यप्रबन्धा निरूप्यन्ते ।
'चतुर्विधैरभिनयैः सात्त्विकाङ्गिकपूर्वकैः । धीरोदात्ताद्यवस्थानुकृतिर्नाटयं रसाश्रयम् ॥ भावाश्रयं तु नृत्यं स्यानृत्यं ताललयाश्रयम् । मधुरोडतभेदेन तद्वयं द्विविधं पुनः ॥
लास्यताण्डवभेदेन नाटकाद्युपकारकम् ।' तेन नाटयेन दश रूपकाणि भवन्ति।
'नाटकं सप्रकरणं भाणः प्रहसनं डिमः
व्यायोगसमवाकारौ वीथ्यङ्गेहामृगा दश।' इति । रूपयति दर्शयति रसादिकमिति रूपकम् । नाटयाश्रयत्वेन तेषां नाभेदशङ्का।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com