________________
विलास. ५]
दोषगुणनिरूपणम् ।
अत्र मित्रानन्दकरस्य शत्रुभञ्जनमुखेन मित्रमण्डलभेदनमयुक्तमिति दिगन्तानयतीति ध्वनिः ।
'उक्तेस्तु परिपाको यः सा प्रौढिरिति कथ्यते ।। यथा-'कर्णाग्रलोले'त्यादि । [४२ प]
'विदग्धफणितिर्या स्यादुक्तिं तां कवयो विदुः।" यथा
वीरविभुसुकृतराशिविश्वाधिकचरणकमलकलहंसः । देवविभोरनुजातो दीव्यति ननु कोऽपि वसुमतीविभवः ॥
'यथाप्रक्रमनिर्वाहो रीतिरित्यभिधीयते।' यथा
त्रिदशपतिसदृशविभवस्तिसृषु च शक्तिष्वतीव निष्णातः । त्रिषु चावयवेषु दृढस्त्रिभुवनविनुतो विभाति नाविभुः ॥
'यावदर्थपदत्वं तु सम्मितत्वमुदाहृतम् ।' यथा
नञ्जराजविपक्षौघदुर्गभ्रमणदुर्दशाम् ।
निरीक्ष्य निर्झरव्याजान्मुश्चन्त्यश्रूणि पर्वताः । एते चतुर्विंशतिगुणा भोजराजादिसम्मताः । तेषां गुणानामर्थगतस्वं केचिदिच्छन्ति । प्राचामाचार्याणां मतेन संघटनाश्रयत्वमेव गुणानाम् । तदुक्तमलङ्कारसर्वस्वे संघटनाधर्मत्वेन शब्दार्थधर्मत्वेन गुणानामलङ्काराणाञ्च व्यवस्थापन मिति । अनयैव भङ्गया गुणालङ्काराणां सुनिरूप्यः स्वरूपभेदः । अन्यथा स्वरूपभेदस्य दुर्निरूप्यत्वापत्तेः । काव्यशोभाकरत्वमेव गुणालङ्कारस्वरूपमुक्तं रुद्धदेवेन
'यो हेतुः काव्यशोभायाः सोऽलङ्कारो निगद्यते।
गुणोऽपि ताहशो ज्ञेयो दोषस्स्यात्तद्विपर्ययः ॥ इति ॥ अतो गुणानां सडन्टनाश्रयत्वमेव युक्तम् । एषां मध्ये केषाश्चिदोषपरिहारत्वेन केषाश्चित् स्वतएवोत्कर्षहेतुत्वाद्गुणत्वम् । तत्रै ते (तनैते ?) स्वतएव चारुत्वादिहेतवः । दोषपरिहारहेतूनां गुणत्वं न सर्वैः सम्मतम् । ये तु दोषाभावतयापि गुणत्वमिच्छन्ति तेषामेव सौकुमार्यादयो गुणत्वेन सम्मताः ।
१०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com