SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ७२ - नजराजयशोभूषणम् । [विलास.५ आसन्नविंशाअपि राजवंश्यास्त्रस्यन्ति याभ्यामरिभीषणाभ्याम्॥(?) अत्र पूर्वार्धे संक्षिप्तार्थस्योत्तरार्धन प्रपञ्चनम् । 'संक्षिप्तार्थाभिधानं यस्सङ्घपः परिकीय॑ते ।' यथा चिन्तामणिरिति कल्पतरुरिति सुरधेनुरितिच भुवि तावत् । वार्ताजनि चन्द्रकुले यावनोदेति नञ्जभूपालः ॥ अत्र संक्षेपेण वदान्यतातिशयो निरूपितः । 'सुपां तिङां च व्युत्पत्तिः सौशब्द्यं परिकीर्त्यते।' यथा सजवबलविशेषसन्तोषिताशेषलोकस्तुतो हरिरिव करिकूटमुत्कूलदानोटं पाणिजैः। शितशरनिकरेण दुर्मेधसां यूधमायोधने मृदुलकदलकाण्डलावं लुनीतेऽद्य नञ्जप्रभुः ॥ 'भावतो वाक्यवृत्तिर्या भाविकं तदुदाहृतम् ।' हर्षभाववशेन प्रवृत्ता वाग्भाविकमित्यर्थः । 'प्रेयःप्रियतराख्यानं चाटूक्तौ यद्विधीयते।' उभयमपि यथा नाप्रभो त्वं जनरञ्जनाय श्रियं यशश्चापि चिरं वहस्व । वाणि त्वमप्यम्ब मयि प्रसादं प्रदर्शयास्यैव गुणान्प्रवक्तुम् ।। अत्र वाणि त्वमम्बेत्यत्र भाविकमितरत्र प्रेयः। 'समाधिरन्यधर्मस्य यदन्यत्राधिरोपणम् ।' यथा वदान्यभावमालोक्य वीरनञ्जमहीपतेः । मन्दाक्षेणैव मन्दारो विलीनो वियदङ्कणे ॥ 'ध्वनिमत्ता तु गाम्भीर्य गुणवद्भिनिरुच्यते ।' यथा मित्रानन्दकरो राजा नञ्जभूपो भयावहैः । टङ्कारैरेव धनुषो दिगन्तान प्रापयत्यरीन् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy