SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ विलास. ५] दोषगुणनिरूपणम् । _ 'अवैषम्येण भणनं समत्वं तन्निगद्यते ।' यथाकदा करुणवारिधिस्त्वयि दयेत नाप्रभुः । कदा भवदुपागमं वद शृणोमि सख्या मुखात् ॥ कदा तव मुखाम्बुजं प्रिय पिबामि नेत्राञ्चलैः। कदा स्व( स ?)समयो भवेदह यत्र नासङ्गतिः ।। इदं प्रतिष्ठासुं कश्चन राजानं प्रति प्रियावचनम् । 'मिथस्संश्लिष्टपदता श्लेष इत्यभिधीयते ।। बहूनां पदानामेकवद्वभासमानत्वं श्लिष्टत्वम् । यथा अमरपतिममितवैभवमपहसति हि वीरविभुसुतो नृपतिः। विशयति भुवनमपि भृशपरिणतशरदिन्दुसवयसा यशसा ॥ अत्र पदानामेवा(कतया ?)वभासमानत्वम् । 'अत्युज्वलत्वं बन्धस्य काव्ये कान्तिर्निगद्यते ।' यथा 'शाणोत्तेजितपद्मराग शकले त्यादि।[ १९५] एते दश गुणाः वामनादिसम्मताः। 'अन्तस्सञ्जल्परूपत्वं शब्दानां सौक्षम्यमुच्यते । गतिर्नाम सुरम्यत्वं स्वरारोहावरोहयोः ॥' आरोहावरोही नाम दीर्घत्वहस्वत्वे । यथा सङ्कीड(सळूज?)न्ति स्म पूर्व प्रमुषितयशसः केपि कौतस्कुतैर्ये गर्वैरुव्यंशभाज: करनिहितमुखा हेमकूटस्थलीषु । नञ्जक्ष्मापालवीरं नतजनसुलभं साम्प्रतं सेवमानाः। सङ्कीडन्ते तएव प्रमुदितमनसः स्वर्णसौधाङ्गणेषु ॥ अत्र पद्ये सङ्कीड(सकूज)न्तीति पदेन कूजनमर्थः (नार्थेन ?) निगूड जलप्यत इति सौक्ष्म्यम्, गम्यते स्वराणामारोहावरोहौ चेति गतिः । 'प्रपञ्चनं चेत्संक्षिप्य कथितार्थस्य विस्तरः।' यथा असंशयं विश्रुतविक्रमौ द्वौ नञ्जक्षितीन्द्रो भृगुनन्दनश्च । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy