________________
विलास. ५]
दोषगुणनिरूपणम् । _ 'अवैषम्येण भणनं समत्वं तन्निगद्यते ।' यथाकदा करुणवारिधिस्त्वयि दयेत नाप्रभुः ।
कदा भवदुपागमं वद शृणोमि सख्या मुखात् ॥ कदा तव मुखाम्बुजं प्रिय पिबामि नेत्राञ्चलैः।
कदा स्व( स ?)समयो भवेदह यत्र नासङ्गतिः ।। इदं प्रतिष्ठासुं कश्चन राजानं प्रति प्रियावचनम् ।
'मिथस्संश्लिष्टपदता श्लेष इत्यभिधीयते ।।
बहूनां पदानामेकवद्वभासमानत्वं श्लिष्टत्वम् । यथा
अमरपतिममितवैभवमपहसति हि वीरविभुसुतो नृपतिः। विशयति भुवनमपि भृशपरिणतशरदिन्दुसवयसा यशसा ॥ अत्र पदानामेवा(कतया ?)वभासमानत्वम् ।
'अत्युज्वलत्वं बन्धस्य काव्ये कान्तिर्निगद्यते ।' यथा
'शाणोत्तेजितपद्मराग शकले त्यादि।[ १९५] एते दश गुणाः वामनादिसम्मताः।
'अन्तस्सञ्जल्परूपत्वं शब्दानां सौक्षम्यमुच्यते । गतिर्नाम सुरम्यत्वं स्वरारोहावरोहयोः ॥'
आरोहावरोही नाम दीर्घत्वहस्वत्वे । यथा
सङ्कीड(सळूज?)न्ति स्म पूर्व प्रमुषितयशसः केपि कौतस्कुतैर्ये
गर्वैरुव्यंशभाज: करनिहितमुखा हेमकूटस्थलीषु । नञ्जक्ष्मापालवीरं नतजनसुलभं साम्प्रतं सेवमानाः।
सङ्कीडन्ते तएव प्रमुदितमनसः स्वर्णसौधाङ्गणेषु ॥ अत्र पद्ये सङ्कीड(सकूज)न्तीति पदेन कूजनमर्थः (नार्थेन ?) निगूड जलप्यत इति सौक्ष्म्यम्, गम्यते स्वराणामारोहावरोहौ चेति गतिः ।
'प्रपञ्चनं चेत्संक्षिप्य कथितार्थस्य विस्तरः।'
यथा
असंशयं विश्रुतविक्रमौ द्वौ नञ्जक्षितीन्द्रो भृगुनन्दनश्च ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com