SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ विलास. ५] दोषगुणनिरूपणम् । ____ अत्र कवित्वसम्पादने नदीतरणादिकमप्रयोजकमित्यर्थदोषः। सर्वेऽप्येते. ऽनुकरणे न दोषाः। अप्रतीतं शास्त्रोक्तार्थप्रकाशने न दोषः, ग्राम्यस्य बिरुदादिकथनेऽप्रयुक्तस्यैकाक्षरादौ ब्रीडादायिनो रतिभेदे अमाङ्गल्यस्य शत्रुवर्णने जुगुप्सितस्य विरतोक्तौ निहतनिरर्थयोर्यमकादावनुचितार्थस्य विशेषप्रतीतौ श्रुतिकटुत्वादीनामपि रौद्रादावदोषत्वम् । इतिदोषनिरूपणम् । अथ गुणा निरुप्यन्ते। रसोत्कर्षापादकत्वं[गुणत्वम्]ते च (ते पुनः ?) गुणाः । माधुयाँजाप्रसादाश्चाप्यर्थव्यक्तिरुदात्तता ॥ औदार्य-सुकुमारत्व-समत्व-श्लेष-कान्तयः । सौक्ष्म्य-विस्तर-सङ्केपाः सौशब्दौ-र्जित्य-भाविकम् ॥ प्रेय-स्समाधि-गाम्भीर्य-गति-प्रौढयुक्ति-रीतयः । सम्मितत्वमिति प्रोक्तास्तेषामालोच्यते स्थितिः ॥ गुणांश्चतुर्विंशतिमाह भोजो वदन्ति चैतान्दश वामनाया। आचक्षते त्रीनथ भामहाद्या । युक्तं तत्रैव हि भामहीयम् ॥ 'या पृथक्पदता वाक्ये माधुर्य परिकीर्त्यते । यथा जानासि किं, जलरुहाक्षि किमद्य वेद्यं, नञ्जप्रभुः क वसतीति, अयि निष्कुटेऽस्मिन् । कुर्वन् किम, आकृतिमसौ विलिखन्प्रियायाः, काऽन्या प्रिया, अलमपदे विशयैस्त्वमेव ॥ इदं सखीनायिकयोरुक्तिप्रत्युक्तिरूपं वचनम् । अत्र वाक्ये पाठसमय एव पृथक्त्वप्रतीतेर्माधुर्यम् । 'ओजःसमासभूयत्वम् । यथाभ्राम्यन्मत्तमदावलेन्द्ररटितप्रारभारसंवर्गित. स्फारोद्विक्रममाणतुङ्गतुरगप्रक्रान्तहेषोद्धताः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy