________________
મદિરપ્રવેશ અને શા शूद्रः पैजवनो नाम सहस्राणां शतं ददौ ।। ऐन्द्रामेन विधानेन दक्षिणामिति नः श्रुतम् ॥ यतो हि सर्ववर्णानां यज्ञस्तस्यैव भारत । अग्रे सर्वेषु यज्ञेषु श्रद्धायज्ञो विधीयते ॥ अयजन्निह सत्रैस्ते तैस्तैः कामैः समाहिताः । संसृष्टा ब्राह्मणैरेव त्रिषु वर्णेषु सृष्टयः । ततः सर्वेषु वर्णेषु श्रद्धायज्ञो विधीयते ॥ स्तेनो वा यदि वा पापो यदि वा पापकृत्तमः । यष्टुमिच्छति यज्ञ यः साधुमेव वदन्ति तम् ॥ ऋषयस्तं प्रशंसन्ति साधु चैतदसंशयम् । सर्वथा सर्वदा वर्णैर्यष्टव्यमिति निर्णयः ॥
शान्ति. ६०; ३८-४०, ४२, ४५, ५२-३. २६. कथमस्यामत्रोऽपि यज्ञ इत्याशंक्याह - सर्ववर्णाना त्रैवर्णिकानां यो यज्ञः स तस्यैव शुद्रस्यैव भवति तत्सेवकत्वात् । . . . एवं श्रद्धया ब्राह्मणादीनाराधयतः शूद्रस्यापि ब्राह्मणकृतयशफलभागित्वमस्त्येवेत्यर्थः । सर्वेषां वर्णानां ब्राह्मणजत्वादस्त्येव शूद्रस्यापि यज्ञेऽधिकार इत्यर्थः । . . . तेन धर्मतो जन्मतश्च सर्वे वर्णा ब्राह्मणसंसृष्टा इति स्थितम् । ब्राह्मणसन्ततित्वात् सर्वेऽप्येते ब्राह्मणा एवेत्यर्थः ।
ઉપલા શ્લોકો પરની નીલકંઠની ટીકા. २७. चण्डालम्लेच्छश्वपचकपालवतधारिणः । · अकामतः स्त्रियो गत्वा पराकेण विशुध्यते ॥
कामतस्तु प्रसूता वा तत्समो नात्र संशयः ।
स एव पुरुषस्तत्र गर्भो भूत्वा प्रजायते ॥ अत्रि. १८४-५. २८. श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः । वेदस्याध्ययनं हीदं तच कार्य महत्स्मृतम् ॥.
शान्ति. २२७; ४९.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com