________________
3
.
दामोदरगुप्तविरचितं असरलमरसं कठिनं दुर्ग्रहमस्निग्धमाश्रिता खदिरम् । यदुपैति वाच्यपदवीं मालतिका तत्किमाश्चर्यम् ॥ १३२ ॥ अथवा कः खलु दोषो, यदतुल्यतयोपजनितवैलक्ष्यः । स्वाधीनामपि सरसां परिहरति मृणालिकां ध्वाः ॥ १३३ ॥ माऽत्र करिष्यसि खेदं निष्ठुरमुक्तोऽसि यन्मया सुभग । यूनां हि रक्ततरुणीसुहृदाभिहितपरुषमाभरणम् ॥ १३४ ॥
यालंकारद्वारा समर्थयति कमलेति । तल्लक्षणं तु-"तत्सिद्धिहेतावेकस्मिन्यत्रान्यत्तत्करं भवेत् ।" इति काव्यप्रकाशे । 'कमलवती' [इति पाठे] कमलिनी । तीव्ररुचिः सूर्यः । पशुकल्पे पशुतुल्ये परव्यथानभिज्ञे इत्यर्थः । तेन तजन्यशोकेन । [ अपि च अत्र कोमलानां कमलवन्यादीनां अननुरूपैः तीक्ष्णकरादिभिः वस्तुगत्या सत्यायाः घटनायाः वर्णनात् विषमालंकारः, तेन स्वस्य कार्यस्य समर्थनात् काव्यलिङ्गश्च, त्रयाणामत्र सङ्करः ॥ कार्याभावेऽपि एवमुक्तिः दूतीधौर्त्यम् । ] ॥ १३१ ॥ असरलम् अऋजुप्रकृतिकम् , अरसं प्रीतिविवर्जितम् , अस्वादं च; कठिनं कर्कशम् , दुर्ग्रहं युक्तयाऽनुकूलयितुं दुःशकम् , अस्निग्धं रूक्षम् । [खदिरः वृक्षविशेषः “खेर' इति भाषायां प्रसिद्धः। मालतिका मालती जाति: 'चंबेली ' इति भाषायां प्रसिद्धा लता । ] तथा च खदिरतुल्यम् त्वामाश्रिता, वाच्यपदवीं निन्दापरंपरां यत् सहते तत्स्वकृतापराधफलत्वात् , [यद्वा अनिष्टयोगेन तदनुरूपफलप्रात्या, ] अद्भुतं न भवति। [ अत्र वाच्येन अप्रस्तुतेन मालतीलतावृत्तान्तेन सादृश्यात् प्रस्तुतं मालतीनायिकादशाविशेष: व्यङ्ग्यं, तेन अत्र अप्रस्तुतप्रशंसालंकारः स च अत्र श्लिष्टविशेषणादिनिबन्धनः सन् कामपि विच्छित्तिं बिभर्ति ] ॥ १३२ ॥ [ अतुल्यता इयं मत्तः अधिकरूपगुणवती इति असमानता । वैलक्ष्यं विस्मयभावः । मृणालिका कमलिनी । ध्वासः काकः ॥ अत्र पूर्व उक्तं मालतीदोषवत्त्वं निषिध्य अप्रस्तुतप्रशसामुखेन नायकदोषविधानात् तद्धटित आक्षेपालंकारः। स च “ आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात् । ” इति कुवलयानन्दे । एतेन भट्टपुत्र: अरसिकः पशुतुल्य: नायकगुणहीनश्च इति व्यञ्जितम् ] ॥ १३३ ॥ [ अत्र मालतीसंबन्ध्यनुरागविषये । रक्ता अनुरक्ता । तरुणीसुहृत् सखी।] (अभिहित )परुषं कर्कशोक्तिः ॥ [प्रकारान्तरेण पुनरपि आक्षिपति मा इति । अत्र
१३२. मलसं ( कापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com