________________
कुट्टनीमतम् ।
३२
आतोद्यवादनविधौ नत्ते गीते च कौशलं तस्याः। अभिधातुं यदि शक्तो वदनसहस्रेण भोगिनामीशः॥ १२५ ॥
(युगलम् ) परिगलदालोलांशुकमपयन्त्रणमुरासि मालती रभसात् । निपतति नापुण्यवतां रतिलालसमानसा रहसि ॥ १२६ ॥ रतिरसरभसास्फालनचलवलयनिनादमिश्रितं तस्याः। तत्कालोचितमणितं श्रुतिपथमुपयाति नाल्पपुण्यस्य ॥ १२७ ॥ __ इत्थमभिधीयमानः शुभमध्ये यदि भवेदुदासीनः । एवं ततोऽभिधेयः संदर्शितकोपया दूत्या ॥ १२८॥ 'किं सौभाग्यमदोऽयं यौवनलीलाभिरूपतादर्पः। सहजप्रेमोपनतां मालतिकां न बहु मन्यसे येन ॥ १२९ ॥ न गणयति या कुलीनान् द्रविणवतः शास्त्रवेदिनः प्रणतान् । सा भवदर्थे शुष्यति, कुस्थाननिवेशितं धिगनुरागम् ॥ १३० ॥ कमलवनी तीव्ररुचौ, बहुभस्मनि शंभुशिरसि शशिलेखा ।
सा च त्वयि पशुकल्पे, यदभिरता तेन मे कृशता ॥ १३१ ॥ ॥ १२४ ॥ वीणामुरजवंशीकांस्यादि चतुर्विधवाद्यं आतोद्यम् । [आतोद्यादित्रयेण तौर्यत्रिकं संपूर्ण सङ्गीतशास्त्रमुक्तम् । ] भोगिनामीशः [ सर्पराज: ] शेषः । [वदनसहस्रपदेन काव्यलिंगालंकारः, यदीत्यादिना संभावनालङ्कारश्च] ॥ १२५ ॥ अपयन्त्रणं विश्रब्धं अपशङ्कम् । [ रभसात् वेगेन । रतिलालसमानसा इत्यनेन रत्यावेगात् नायिकायाः स्वयममिसारो द्योतितः, स च कामुकप्रार्थनातो वरः। ॥१२६॥ रसोऽतिप्रीतिः । [आस्फालनं परस्परसंघट्टः । ] मणितं रतिकूजितम् । पुण्यवतैव श्रूयते इत्यर्थः ॥ १२७ ॥ [ दानप्रतिनिधौ प्रलोभने निष्फले दण्डप्रतिरूपोपालम्भप्रयोगं उपदिशति इत्थमिति । उदासीनः अविकृतः ] ॥ १२८ ॥ — यौवनशील ' इति पाठे सम्बुद्धिबर्बोध्या । [ अभिरूपता रम्यता । दर्प: गर्वः अहङ्कारः सर्वाधिकत्वधीः । ] ॥१२९॥ शुष्यति ताम्यति । [ अत्र अर्थान्तरन्यासः । ] ॥ १३० ॥ [पूर्वोक्तमेव समुच्चपुस्तशा (प)। युग्मम् (प)। १२६. णमुपरि (प. कापा ) १२७. भणितं (गो२. कापा) रणितं (कापा) १२९. यौवनशीला ( गो २) १३०. शस्त्र (का)। प्रण. यान् ( गो २ ) प्रयतान् (प) १३१ कमलवती (प. का )।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com