________________
दामोदरगुप्तविरचितं सहजविलासनिवासं तस्या वपुरनभिवीक्षमाणस्य । मन्ये नाकाधिपतेः सहस्रमपि चक्षुषां विफलम् ॥ १२१ ॥ शिथिलयतु कुसुमचापं, क्षिपतु शरान्बाणधौ मनोजन्मा। संसारसारभूता विलसति भुवि मालती यावत् ॥ १२२ ॥ वात्स्यायनमदनोदयदत्तकविटपुत्रराजपुत्राद्यैः। उल्लपितं यत्किञ्चित् तत्तस्या हृदयदेशमध्यास्ते ॥ १२३ ॥ भरतविशाखिलदन्तिलक्षायुर्वेदचित्रसूत्रेषु ।
पत्रच्छेदविधाने भ्रमकमणि पुस्तसूदशास्त्रेषु ॥ १२४ ॥ तद्विषयात् " इत्यनेन इवार्थे छप्रत्यये काकतालीयं इति रूपम् ” इति काकतालीयवादे।] ॥ १२० ॥ [ नाकाधिपतिः स्वर्गाधिपः इन्द्रः। ] ॥ १२१ ॥ [बाणधिः तूणीरम् । अत्र प्रतीपालंकारः, उपमेयभूतायाः मालत्या एव उपमानप्रयोजनधूर्वहत्वात् । लक्षणभेदेन तु आक्षेपालंकारः । 1॥ १२२ ॥ वात्स्यायनादीनि कामशास्त्राचार्यनामानि, [तत्र वात्स्यायनः कामसूत्रप्रणेता, मदनोदयः एतन्नामकग्रन्थात् प्रसिद्धस्तत्कर्ता, मदनोदयात् समुद्धत एकः श्लोको राघवभट्टेन शाकुंतलटीकायाम् (१।२६)। दत्तकः वैशिकशास्त्रकर्ता।] तदाद्यैर्यत् किञ्चित् अखिलमुल्लपितं स्वबुद्धिवैभवेन शास्त्रेषु निबद्धं तत्सर्व तत्याः स्वभावत एव मानसविलासशीलम् ॥१२३ ॥ [न केवलं सा कामशास्त्र एव प्रवीणा किन्तु नानाकलास्वपि विचक्षणा इति द्वाभ्यामाह भरतेति । तदुक्तं कामशास्त्रे (१।३)-" आभिरभ्युच्छ्रिता वेश्या शीलरूपगुणान्विता । लभते गणिकाशब्दं स्थानं च जनसंसदि " ॥ इति। भरतः रागमालानाट्यशास्त्रयोः कर्ता, तेन गीते वाद्ये नृत्ये इति कलात्रये सा निपुणा इति लभ्यते । एवमग्रेऽपि । विशाखिलः कलाशास्त्रकर्ता, तदुक्तं काव्यालंकारवृत्तौ (१।३१७) " विशाखिलादिप्रणीतानि कलाशास्त्राणि " इति । दन्तिलः कोहलशिष्यः सङ्गीताचार्यः । चित्रं आलेख्यकला । सूत्रं सीव्यं, सूचीवान कर्म; यद्वा सूत्रक्रीडा-अंगुलिन्यासात् सूत्रेण नानाकारप्रदर्शनम् । पत्रच्छेदविधानं पत्रच्छेद्यं पूर्व व्याख्यातम् ।. भ्रमकर्म ऐन्द्रजालिकम् यानविधि: वा । पुस्तं काष्ठपुत्तलिकादिरचनं, तदुक्तं-" मृदा वा दारुणा वाऽथ वस्त्रेणाप्यथ चर्मणा । लोहरत्नैः कृतं वाऽपि पुस्तमित्यभिघीयते " ॥ इति अमरव्याख्यासुधायाम् । सूदशास्त्रं नलादिपाकशास्त्रम् ॥] __ १२२ विचरति (प. का ) १२३. उच्छ्रसितं (प. गो २ ) १२४ दत्तिल (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com