________________
कुट्टनीमतम् ।
तस्या रम्भावपुषो रम्भोपममूरुयुगलमवलोक्य । मकरध्वजोऽपि सहसा निजसायकलक्ष्यतां याति ॥ ११६ ॥ जघनभरालसयाता नायाता सा विलोचनावसरम् । तिष्ठति तेन मनोहर शरजन्मा ब्रह्मचर्येण ॥ ११७ ॥ यदि कथमपि मधुमथनः पश्यति तामसमबाणसर्वस्वम् । तदसारभारभूतामिव लक्ष्मीमुरसि विनिहितां मनुते ॥ ११८ ॥ यदि पतति सा कथञ्चिद्वीक्षणविषये हरस्य तदवश्यम् । त्रिभुवनमशिवं कुरुते वामेतरदेहभागमासाद्य ॥ ११९ ।। सौन्दर्य तत्तादृशमशेषयोषिद्विलक्षणं सृजतः।
यनिष्पन्न धातुस्तन्मन्ये काकतालीयम् ॥ १२० ॥ [इतो देवानामपि मोहकारिणी सेति किमु त्वादृशामिति वर्णयति । तत्रादौ जगजेतुः कामस्यैव तद्वशित्वमाह तस्या इति । रम्भावपुषः] रम्भा काचन रूपिणी स्वर्गाङ्गना, तस्या वपुरिव वपुर्यस्याः सा; रम्भोपमं कदलीतुल्यम् । मकरध्वज: कामः । निजसायकलक्ष्यतां वशीभावम् ॥११६॥ [अथ देवेषु ब्रह्मचर्यत्वेन प्रसिद्धस्य कार्तिकस्वामिनोऽवस्थामाह।] [जघनभरेण अलसं मन्दमन्दं यातं गमनं यस्याः सा।] शरजन्मा कार्तिकेयः ॥ ११७ ॥ [क्रमेण सपत्नीकदेवेषु प्रमुखाणां तद्दर्शनजं विकारमाह।] मधुमथनो नारायणः। असमबाणः पञ्चबाणः । [पश्यति पश्येत् , तत् तदा, मनुते मन्वीत । अत्र कार्यनिबन्धनः अप्रस्तुतप्रशंसालंकारः शेयः, नायिकासौन्दर्ये वर्णनीयत्वेन प्रस्तुते लक्ष्मीपतेः तन्मूलकगर्वशान्तिरूपकार्यस्य संभवाभिधानत्वात् ] ॥ ११८ ॥ वामेतरो दक्षिण:, वामस्य पार्वतीरुद्धत्वाद्दक्षिणस्य [ सौन्दर्यवत्त्वात् शिवेन पार्वतीवत् तस्याः स्वीकरणे] तया रोधे, प्रतिपाद्यं [शिवलयरूपं] सुलभं । [अत्र पूर्वस्मिन् श्लोके च कुवलयानन्दानुसारेण संभावनालंकारः, “ संभावना यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये ।" इति तल्लक्षणात् । काव्यप्रकाशानुसारेण यद्यर्थातिशयोक्तिः।] ॥११९॥ काकतालीयम् आकस्मिकघटन । [अत्र प्रत्ययार्थोपमा कुवलयानन्दमतेनं । " काकागमनमिव तालपतनमिव इत्येवं काकागमनतालपतनसदृशार्थक-इवार्थविषयात् काकताल–इति समासात् , “ समासाच्च
११७ नो याता (प. कापा) विलोचनप्रसरम् (प. गो २) ११८ भारभूतं लक्ष्मीवपुरुरसि विनिहितं ( प. गो २) तदसारभूतमेव स लक्ष्मीवपुरुरसितं ( कापा) ११९. विषयं (प. कापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com