________________
२६
दामोदरगुप्तविरचितं
सरसिजमस्थिरशोभ, विभ्रमरहितं च मण्डलं शशिनः । केन समेतु समत्वं हृदयप्रिय मालतीवदनम् ॥ १११ ॥ अलिरुपरि तदीक्षणयोर्भ्रान्त्वा सौगन्ध्यसूचितविशेषः। . निपतति कर्णाम्बुरुहे, निर्गुणताऽप्यवसरे साध्वी ॥ ११२ ॥ बिभ्राणेऽरुणिमानं सहज जितबन्धुजीवरुचिमधरे । यदलक्तकविन्यसनं तत्तस्या मण्डनक्रीडा ॥ ११३ ॥ चित्रमिदं यत् कृशता तस्या बलिपरिगृहीतमध्यस्य । अथवा नो विधिविहिता महताऽप्यपनीयते तनुता ।। ११४ ॥ आस्तामपरस्तावत्तस्याः स्मरवसतिपृथुतरनितम्बः । श्लथयति कपिलमुनेरपि दृक्पथपतितः समाधानम् ॥ ११५ ॥
पमानकत्वम् । अलिकं ललाटम् ॥ ११० ॥ मालतीवदनस्य स्थिरशोभत्वात् विलासविभासित्वाच्च [तत्] तादृशोपमम् इति असंभवः। [अत्र उपमानयोः निन्दया प्रतिक्षेपेन निन्दोपमा, यद्वा व्यतिरेकालंकारः, तेन उपमेयस्य सातिशयत्वं व्यज्यते ॥ १११ ॥ अलिः इत्यादि । भ्रमरस्यापि भ्रम इति सर्वथा कमलतुल्ये तदीक्षणे इति बोधितम् । [विशेषः भेदः।] साध्वी हितकारिणी, भ्रमरभयस्य तदानीं वारणात् । [ पादत्रये उन्मीलितालंकारः, “ भेदवैशिष्टययोः स्फूर्ताव॒न्मीलितविशेषको ।" इति कुवलयानन्दीयलक्षणात्, समग्रे तु अर्थान्तरन्यासः, अत: तयोः अत्र सङ्करः ] ॥ ११२ ॥ [बन्धुजीव: रक्तपुष्पो वृक्षविशेषः, दोपहरिया बपोरिया वा इति भाषायां प्रसिद्धः, तत्पुष्पमपि बन्धुजीवम् । अधरस्य रक्ततापादनाय तत्र पादे इव अलक्तकं दीयते ।] मण्डनक्रीडा तदधरस्य स्वभावसुन्दरत्वात् केवलं शोभार्थ विन्यासविलासः [ तथा च सुरथोत्सवकाव्ये-“ विद्रुमादपि निसर्गसुन्दरे दन्तवाससि विशालचक्षुषः । मण्डनैकरसया वयस्यया यावकः स्थितिरिति न्यधीयत ॥” (६/६५) इति । ] ॥ ११३ ॥ बलय: त्रिवलयः, बली बलवांश्च । [अत्र आक्षेपार्थान्तरन्यासालंकारयोः सङ्करः, 'अथवा' इत्यनेन पूर्वोक्तचित्रत्वस्य विचारणात् निषेधात्, पूर्वार्धे विशेषस्य उत्तरार्धे सामान्यस्य च न्यासात् ] ॥ ११४ ॥ अपरः अन्योऽवयवः । समाधानम् समाधिम् ॥ ११५ ॥
११२. विशेषे ( गो २ ) ११३ विन्यासः ( गो २ ) ११४. निहिता (कापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com