________________
कुट्टनीमतम् ।
नो गृह्णन्ति यथार्था अर्थिजनैर्निगदिता गिरः प्रायः। मालत्या गुणलेशं शृणु धृष्टतया तथापि कथयामि ॥ १०७ ॥ आस्फालयतो नूनं धनुरतनोः कौसुमं रजः पतितम् । संगृह्य सा सुगात्री विश्वसजा निर्मिता तेन ॥ १०८ ॥ उपहसति गिरिसुताया लावण्यं, येन सततलग्नेन । न द्रवतामुपनीतं भोगीन्द्रविभूषणस्य देहाधम् ॥ १०९ ॥ शशधरबिम्बार्धगतां छायामिव सँहिकेयवदनस्य । अलिपटलनीलकुटिलामलकावलिमलिकसन्निधौ वहति ॥ ११०॥
प्रार्थयते अबलामिति । अर्थान्तरन्यासालंकारः । तेन सामान्येन समर्थनात् प्रस्तुतस्य अवश्यकरणीयत्वं व्यज्यते ] ॥ १०६ ॥ [स्वार्थपरायणाः इष्टसिद्ध्यर्थ अलीकपि वदन्तीति लोकव्यवहारं समालोच्य स्वस्या अर्थित्वेन संभाव्यमानं मिथ्याभाषित्वारोपं निवारयितुं मालत्याः प्ररोचकगुणवर्णनरूपं दानप्रयोगं चतुरा दूती करोति इतः ऊनविंशतिभिः आर्याभिः । यथार्थान् । इति पाठे ] अर्थिजनैः निगदिता उक्ताः, गिरो वाचः कर्यः; प्रायो यथार्थान् वास्तविकार्थान् नो गृह्णन्ति, तेषां स्वार्थप्रवणत्वात् तदुच्चरितवाचो बहुशः संवादिन्यो न भवन्ति इत्यर्थः । यद्यपीत्थं स्थितिः तथापि मया वर्णयिष्यमाणो गुणौघः तात्त्विक एव इति समर्थयितुमयमुपक्रमः । [धृष्टतया निर्लजतया, यतः स्वसख्युः स्वमुखेन प्रशंसाऽनुचितेति । ] ॥१०७॥ अतनु: कामः । [नूनपदमत्र उत्प्रेक्षाद्योतकम् ।] ॥१०८॥ [ लावण्यं स्त्रीणां गुणविशेषः, तच्च-"मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥” इति लक्षितम् । न द्रवतामुपनीतं लयं न गमितं, ] भोगीन्द्रविभूषण: शिव:, [तस्य देहस्य शेषं अर्ध अविकृतं इति गौरीलावण्यं मालती उपहसति । ] ॥ १०९ ॥ [ इतः तस्याः शोभनावयवान् वर्णयति शशेति । ] सैंहिकेयो राहुः, तस्य तमोरूपत्वात् तद्वदनच्छायाऽतिश्यामा भवति इति वदनशशधरबिंबसंनिहित(संनिधान?)संभाविततया अतिश्यामचूर्णकुन्तललावण्यायास्तदु
१०७. यथार्थान (गो. का) १०८. संहृत्य (कापा) । सुमध्या (प. कापा)। [ शरीरैकदेशव्यंजकत्वादयं पाठो न समीचीनः । ] तानेन (प) ता जगति ( गो २ कापा) ११० बिम्बाधिगतां (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com