________________
२४
दामोदरगुप्तविरचितं
महिषीव पङ्कदिग्धा, हंसीव मृणालवलयपरिवारा । सुभग, मयूरीवासौ भुजङ्गविद्वेषिणी जाता ।। १०१ ॥ कदली चन्दनपङ्कः पङ्केरुहनीरहारघनसारम् । सुन्दर शशधरकान्तं नो शान्त्यै मदन हुतभुजस्तस्याः ।। १०२ ।। अपसारय घनसारं कुरु हारं दूर एव, किं कमलैः । अलमलमालि मृणालैरिति वदति दिवानिशं बाला ।। १०३ ।। संकल्पैरुपनीतं त्वामन्तिकमुल्लसन्मनोवृत्तिः ।
दृढमालिङ्गति, पश्चात् स्वभुजापीडेन याति वैलक्ष्यम् ।। १०४ ।। कुसुमामोदी पवनः, पिककूजितभृङ्गसार्थरसितानि । इयमियती सामग्री घटिता विधिनैव तद्विनाशाय ।। १०५ ।। अबलां बलिना नीतां दशामिमां मकरकेतुना रक्ष । आपत्पतितोद्धृतये भवति हि शुभजन्मनां जन्म ।। १०६ ।।
पङ्कदिग्धा संतापापनयनाय लिप्त कर्पूरचन्दनादिशीत पदार्थद्रवा, संतापव्यथिततया धूलि - धूसरिता वा, पक्षे जातिस्वभावात् सुखार्थं कर्दममनतया तल्लिप्तशरीरा । वलयं कटकः, पक्षे समूहः । परिवारः समीपवर्ती । भुजङ्गा विटा:, तद्विद्वेषिणी त्वय्येवासक्तत्वात् ; अन्यत्र भुजङ्गाः सर्पाः ॥ १०१ ॥ हारः पुष्पमौक्तिकादीनाम् । घनसार: कर्पूर:, समाहारैकवचनम्। शशधरकान्तं चन्द्रमणिः || १०२ || [ तस्याः प्रलापावस्थां वर्णयति अपेति । अपसारय दूरीकुरु । अलंअलं इति द्विरुक्तिः अवधारणार्थम् । आलि सखि । अत्र रकारलकारयोरावृत्त्या वृत्त्यनुप्रासः शब्दालङ्कारः । स च तयोः विप्रलम्भशृङ्गारगत माधुर्यव्यञ्जकत्वात् विप्रलम्भशृङ्गाररसमुपकरोति ॥ १०३ ॥ ] [ प्ररूढरागातिशूयमाह सङ्कल्पैरिति । ] स्वभुजापीडेन बाह्वोः परस्परं संघट्टनेन । वैलक्ष्यं लजां विस्मयं वा ॥ [ संकल्पैरुपनीतं ध्यान बलात् साकारीव कृतम् । लब्धस्यापि आश्लेषानुपलब्ध्या विशेषोक्तिः अलंकारः । तेन च कारुण्यं व्यज्यते ॥ १०४ ॥ ] कुसुमामोदी अत्यन्तचित्तसमाकर्षिसुगन्धवाही । [ पिकः कोकिलः । ] [ समुच्चयालंकारः । तेन विरहपीडाया अत्यन्तदुःसहत्वं व्यज्यते ] ॥ १०५ ॥ [ अतः साम्ना जीवरक्षणं
१०२ कदलीचम्पकचन्दनपङ्के ० ( गो. का ) । नीरधनसारम् ( का ) सारा: ( कापा ) १०५. घटिता कामेन ( गो २ ) दैवेन ( कापा ) १०६. आपद्यबलोद्धृतये (गो. का ) [ अस्मिन्पाठेऽर्थान्तरन्यासस्य न बलवत्प्रतीतिः । ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com