________________
कुट्टनीमतम् ।
केवलमगणितलाघवदूरपरित्यक्तधीरताभरणा । मुखरयति मां दुराशा दग्धसखी, तेन कथयामि ॥ ९६ ॥
हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन । चरमं रमणीवल्लभ लोचनविषयं त्वया भजता ॥ ९७ ॥ क्षणमुत्कण्टकिताङ्गी, क्षणमुल्बणदाहवेदनावस्था । क्षणमुपजातोत्कम्पा, स्वेदावपुः क्षणं भवति ॥ ९८॥ मुहुरविभावितहास्या, मुहुरुज्झितधीरभावमत्युच्चैः । रोदिति, गायति च पुनः, पुनश्च मौनावलम्बिनी भवति ॥१९॥ पतति मुहुः पर्य), मुहुरङ्के परिजनस्य, मुहुरवनौ । किसलयकल्पिततल्पे मुहुम्भसि मुहुरैनङ्गसंतप्ता ॥ १०० ॥
रव्यथा तदाक्रान्तिः ॥ ९५ ॥ अगणितं अविचारितं, लाघवं अपकर्षः । [ दुराशा दुष्पूरा आशा, दग्धसखी-वक्त्र्याः प्रोत्साहकत्वात् सखित्वं, दुष्पूरत्वाच्च दग्धत्वम् । ] ॥ ९६ ॥ [ इतः १०५ श्लोकात यावत् नायिकाविरहवर्णनम् । ] [ चापश्च बाणाश्च चापबाणा:, कुसुमान्येव चापबाणा यस्य स कुसुमचापबाणः मदनः; “ कुसुमेषुरनन्यजः । पुष्पधन्वा रतिपतिः ।" इति अमरः । चरमं पश्चात् । ] भवति लोचनगोचरत्वे संपन्ने तत्समकालमेव सा कामपरवशा जाता इत्यर्थः । [ अत्र कार्यकारणपौर्वाचर्यविध्वंसरूपोऽतिशयोक्त्यलङ्कारभेदः।] [तेन भट्टपुत्रेण शीघ्रं मालतीहृदयमाक्रान्तमिति ध्वन्यते।]॥ ९७ ॥ [ इतः अष्टभिः तस्याः अभिलाषापरनामकपूर्वानुरागजन्यां विप्र. लम्भावस्थां वर्णयति क्षणमिति । उत्कण्टकिताङ्गी संजातपुलका । उल्वणा स्पष्टा । अत्र पुलकादयोऽनुभावाः ] ॥ ९८ ॥ [अथ त्रिभिः विरहजन्याश्चेष्टा वर्णयति मुहुरिति । अविभावितं अदृश्यमानम् । ' दूरविभावितकार्ष्या ' इति पाठे तु । ] दूरविभावितंदूरं अतिशयेन, विभावितं लोकलोचनगोचरीभूतं, परां काष्ठामारुढम् इति यावत् ,कार्य यस्याः ॥ [ मुद्रितपाठे हास्यस्यापि रुदनादिवत् वदनधर्मत्वात् न प्रक्रमभङ्गो दोषः, 'मुहुः' पदपुनरुक्तिश्च अर्थस्य पुष्टिदा।] [अनेन उद्वेगावस्था सूचिता । ] ॥ ९९ ॥
९६. दग्धवती (का) ९७. त्वया व्रजता (गो २. कापा ) ९८. वेदनायत्ता (प. का)। मुपयाताकंपा (प)९९. दूरविभावितकार्या मुहु. (गो. का.)। गायति हृष्यति मुह्यति च स्तम्भिनी भवति (गो. का.) [ मूलपाठः प पुस्तके, तत्रत्यभेदः गो २ कापा इत्यत्र पाठान्तररूपः ।]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com