________________
दामोदरगुप्तविरचितं 'जन्मसहस्रोपचितैः पुण्यचयैरय फलितमस्माकम् । यस्त्वं नयनानन्दन नयनावसरं समेतोऽसि ॥ ९१ ॥ चाटुक्रममनुरागं प्रणयरुषौ विरहजनितशोकार्तिम् । प्रकटयति वाररमणी नटीव शिक्षाभियोगेन ॥ ९२ ॥ प्रवयसि यौवनशालिनि हीनकुले सत्कुलप्रसूते च । रोगवति दृढशरीरे समचित्ता योगिनश्च गणिकाश्च ॥ ९३ ॥ उपचरिताऽप्यतिमात्रं पण्यवधूः क्षीणसंपदः पुंसः। पातयति दृशं व्रजतः स्पृहया परिधानमात्रेऽपि ॥ ९४ ॥ इत्थं दृढतरवासितमनसां पुंसामसाम्प्रतं पुरतः । वेशविलासवतीनामशरीरशरव्यथाकथनम् ॥ ९५ ।। (कुलकम् )
उपचितैः संपादितैः । नयनावसरं लोचनविषयत्वं, प्राप्तोऽसि इत्यर्थः, दृष्टोऽसि इति यावत् ॥ ९१ ॥ नटीव नर्तकीव, वाररमणी वेश्या, शिक्षाभियोगेन शिक्षणप्राप्तकौशलसम्बन्धेन, (कार्यवशादवसरेषु,) चाटुक्रमं प्रशंसापुरस्कृतं, अनुरागं आसक्तिं, प्रणयरुषौ स्नेहक्रोधौ, विरहजनितं शोकं दुःखं, तत्सहितामाति मनोव्यथां च, केवलं प्रकटयति अभिनयति मात्रम् , न तु तस्यास्ते मानसतो भवन्ति ॥ तथा च मया वस्तु सदेव प्रतिपाद्यते,न तु शङ्कास्पदं किञ्चित् इति उदासीनताप्रकाशनप्रवीणा दूती विधेयेति ॥ ९२ ॥ [प्रवयसि वृद्धे । ] योगिनो ब्रह्मज्ञानिनो, गणिका वेश्याश्च, समचित्ताः तुल्यदर्शनाः इत्यर्थः; एकत्र ज्ञानसारत्वात् , अपरत्र द्रविणप्रवणत्वात् । [ अत्यन्तविरुद्धयोगिसादृश्यप्रदर्शनेन स्तुतिद्वारा निन्दा अभिव्यञ्जिता] ॥ ९३ ॥ उपचरिताऽपि पूर्व द्रव्यादिभिः सेविताऽपि, पण्यवधूः वेश्या, परिधानमात्रेऽपि केवले दुकूलवसनेऽपि, दृशं पातयति जिघृक्षति इत्यर्थः ॥ ९४ ॥ [ इत्थं पूर्वश्लोकत्रयवर्णितप्रकारेण, ] दृढतरं वासितं संस्काराधिष्ठितं मनो येषां तेषां पुरतः असाम्प्रतम् अप्राप्तप्रसरत्वात् अस्थाने । [वेशेन अलंकरणेन विलास: विलसनं तद्वती वेशविलासवती वेश्या । ] अशरीरः कामः, तच्छ
९२. चाटूक्ति सानुरागं ( गो २. कापा )। प्रणयरुषो (प)। विदधाति ( गो २. कापा)। शिष्याभियोगेन (प) ९३. गणिका च ( कापा ) ९४. मात्र प्रकटवधूः (प)
९५. युक्तं (कापा)। सांप्रतं कुरुते ( कापा) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com