________________
कुटनीमतम् । प्रविभक्तैर्भावरसैरभिनवभड्ग्या परिक्रमैश्वित्रैः । रम्भामप्यतिशेते किमुतेतरमर्त्य नर्तकीलोकम् ॥ ८६ ॥ इत्यपसारकविरतावविरतमुच्छलितकण्ठमत्युच्चैः । वर्णयति भावितात्मा लक्षितपदमात्रया पात्रम् ॥ ८७ ।।
प्रायेण भट्टतनयो भवतीदृशवेषचेष्टितो भद्रे । तं मदनवागुरान्तः पातयसि यथा तथा ब्रूमः ॥ ८८ ॥ चतुरा प्रागल्भ्यवती परचित्तज्ञानकौशलोपेता । योज्या तस्मिन् दूती वक्रोक्तिविभूषिता प्रयत्नेन ॥ ८९ ॥ स उपेत्य तयाऽवसरे ताम्बूलं सुमनसश्च दत्वेत्थम् ।
अभिधातव्यः सुन्दरि मकरध्वजदीपकैर्वचनैः ॥ ९० ॥ स्थापनम् । स्थानकशुद्धिः-तत्तदने क्रियमाणकौशलप्रदर्शनेषु असंकीर्णतादोषनिरासश्च । चातुरख्यं चतुरस्रता, सर्वत्र कौशल्यं, अभिज्ञता । [ भुजवलनादिषु तादृशं नैपुण्यमस्या येन तानि सर्वाणि अनयैव प्रथमं उद्भावितानि इति वक्तुमुचितं इति भावः । ] ॥ ८५ ॥ प्रविभक्तैः पृथक्पृथगभिव्यक्तैः । [ भावाः रत्यादयो मानसविकाराः । रसाः शृंगारादयः प्रसिद्धाः । भङ्गया रचनया । परिक्रमाः नृत्ते चारीति प्रसिद्धा गतिविशेषाः ॥ ८६ ॥ ] [ अपसारकः नत्तावसाने नर्तक्या: निर्गमनसूचकं गीतवादनं स्यात् , तत्समाप्तौ । उच्छलितः उच्चैःकृतः । भावितात्मा नत्तेन वासितान्तःकरणः । लक्षितपदमात्रया-पदधृता मात्रा पदमात्रा, लक्षिता चासौ पदमात्रा पदा कालमानं तया तन्मात्रेण, न तु कौशल्यग्रहणात् , वर्णयति गुणवर्णनं करोति । पात्रं नर्तकी, "पात्रं स्यान्नर्तनाधारो नृत्ते प्रायेण नर्तकी । (७१२३४ ) इति सङ्गीतरत्नाकरेदि॥ ८७ ॥] [वागुरा मृगादिबन्धनसाधनम् । ] ॥ ८८ ॥ [ इतः करालिका वर्णितस्य भट्टपुत्रस्य वशीकरणोपायान् क्रमेण वर्णयति । तत्रादौ दूतीयोजनमाह चतुरेति । चतुरेत्यादिगुणवर्णनं दूत्या योग्यताद्योतनार्थम् । प्रागल्भ्यवती धृष्टा।] [वक्रोक्तिः कुटिलवचनं,] विभूषिता निपुणा। [ तदुक्तम्- 'पटुता धृष्टता चेतीङ्गितज्ञत्वं प्रतारणम् । देशकालज्ञता
चैव दूतीकृत्ये गुणा मताः ॥” इति । ] ॥ ८९ ॥ मकरध्वजः कामः ॥ ९० ॥ .. ८६. अभिनय (प. गो २. का)। भक्त्या (गो २. का)। तरनतकी ( का)। लोकः (प) ८७. विरताद ( गो. का.)। रतमुत्स्नायुकण्ठ (प. गो २)। पातम् • (गो २. का) यातम् ( गोपा. कापा ) ८८. वेषवेष्टितो वत्से (प ) । तथा कुर्मः (प) ९०. समुपेत्य ( का)। दत्त्वेदम् ( कापा )।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com