________________
कुट्टनीमतम् ।
चन्द्रमसेव ज्योत्स्ना, कंसासुरवैरिणेव वनमाला | कुसुमशरासनलतिका कुसुमाकरवल्लभेनेव ।। १३५ ॥ मदलीला हलिनेव, स्तनयुगलेनेव हारलता ।
रम्याऽपि सा सुगात्री रम्यतरा भवतु सङ्गता भवता ।।' १३६ ।। ( युग्मम् )
किं बहुना, यदि यूनामुपरि विधातुं समीह से चरणम् । तत्कुरु रमणीरत्नं प्रेमोज्ज्वलमङ्कतस्तूर्णम् ॥ १३७ ॥ अथ तद्वचनश्रवणमविजृम्भितमदनभट्टदायादः । उपचरणीयः सुन्दरि निजवसतिमुपागतस्त्वयाऽप्येवम् ॥ १३८ ॥ दूरादभ्युत्थानं, प्रणमनमा॑त्मासनप्रदानं च । प्रविधेयमञ्चलेन प्रस्फोटनमा युगलस्य ।। १३९ ॥
३१
9
,
आक्षेपरूपकदृष्टान्तालंकाराणां समुच्चय: । ] ॥ १३४ ॥ [ एवं सामादि उपायत्रयं प्रयुज्य बहूपमासङ्गताशीरलंकारेण युग्ममाह चन्द्रेति । ज्योत्स्ना चन्द्रिका । कंसासुरखैरी कृष्णः । वनमाला “आपादपद्मं या माला वनमालेति सा मता । " इति यद्वा " पत्रपुष्पमयी माला ‘वनमाला प्रकीर्तिता । ” इति सा च कृष्णवक्षसि नित्यं वर्तते । ] कुसुमाकर वल्लभः [ वसन्तप्रियः ] कामः || १३५ || हली बलरामः ॥ १३६ ॥ [ उपसंहरति ] किमिति । मालतीप्रीतिपात्रतया निखिलतरुणमण्डलीशेखरीभवितुं यदि वाञ्छसि इत्यर्थः । [ रमणीरत्नं सुन्दरीषु श्रेष्ठा, "जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते " । इति उक्तेः । तथा च वराहमिहिरः–“स्त्रीणां गुणा यौवनरूपवेषदाक्षिण्यविज्ञानविलासपूर्वाः । स्त्रीरत्नसञ्ज्ञा च गुणान्वितासु, स्त्रीव्याधयोऽन्याश्चतुरस्य पुंसः || ” ( बृहत्संहितायां ७७ । १३) इति । ] अङ्कतः अङ्के [ सार्वविभक्तिक: तसिल् । ] तूर्णम् शीघ्रम् ॥ १३७ ॥ अथ इति । तस्या वचनश्रवणेन, प्रविजृम्भितः उद्दीपितो, मदनो यस्य सः; भट्टस्य दायादः [ दायं पैतृकं धनं आदत्ते इति दायादः ] सुतः । उपचरणीयः स्वागतादिविधानेन सेव्यः ॥१३८॥ [ वशीकार्यस्य गृहागमनं शुश्रूषाप्रकारं युग्मेनोपदिशति दूरादिति । ] उपचारानेव दर्शयति दूरात् इत्यादि । [ अञ्चलेन परिहितवस्त्रप्रान्तेन । ] प्रस्फोटनं प्रोज्छनम्
१३६. हारलतिका च ( कापा ) । साधुगात्री ( कापा ) १३७. प्रेमोज्ज्वलसंगतं का ) १३८. श्रवणात् परिचुम्बितमदन ( कापा ) । सुस्तनि ( गो २)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com