________________
दामोदरगुप्तविरचितं तदपि यदि ते कुतूहलमस्त्यवधानं संविधाय तनुमध्ये । आकर्णय, कथयामि स्वबुद्धिविभवानुसारेण ॥५८॥ स्वीकुरु तावत्प्रथमं नृपसेवकभट्टसूनुमतियत्नात् । स्वाधीनामतिविपुलां यदि संपदमीहसे सुतनु ॥ ५९॥ प्रत्यासन्नग्रामे स्वयं प्रभुः पितरि नित्यकटकस्थे । भट्टसुतश्चिन्तामणिराकृष्टो भवति पुत्रि नियमेन ॥ ६०॥ शृणु तस्य चारुहासिनि वेषग्रहणं च चेष्टितं चैव । निपतति तथा च तूर्ण प्रियमुरभिशरासनप्रसरे ॥ ६१ ॥ स्थूलस्थापितचूडः पञ्चाङ्गलमात्रकेशविन्यासः ।
लम्बश्रवणनिवेशितकरपत्रकघटितदन्तपशिश्च ॥ ६२ ॥ हेपयतीति । ] ललितं विलासः, मथ्नाति वशीकरोति ॥ ५७ ॥ [ तथापि “ पृच्छते हि हितं ब्रूयात् " इति न्यायात् अविकलं ४१ आर्यास्थप्रश्नस्य उत्तरं दातुमुपक्रमते ।
स्वबुद्धिविभवानुसारेण यावत्स्वबुद्धिवैभवं अखिलं कथयामि, न हि तवाप्रकाश्यं किञ्चिदित्यर्थः] ॥५८॥ [राजपुरुषस्य भट्टनाम्नः पुत्रम् ।] स्वाधीनामिति यदि विपुलां श्रियं स्वकरगतां कर्तु वाञ्छसीत्यर्थः ॥५९॥ 'प्रत्यासन्ने' इत्यनेन सामग्रीक्लेश: 'पितरि । इत्यनेन गुरुजनबाधश्च निवारितः । [ नित्यकटकस्थे-अनिशं दूरे सेनायां राजधान्यां वा वर्तमाने सति । चिन्तामणिः तन्नामा,] आकृष्टः अधीनः । [यद्वा, भट्टसुतः आकृष्ट: वशीकृतः सन् , नियमेन, चिन्तामणिः तद्वत् सर्वाभिलषितार्थपूरकः, भवति भविष्यति, “ वर्तमानसामीप्ये वर्तमानवद्वा " इति लट् । ] नियमेन निश्चितम्॥६॥ तथा च तद्वेषचेष्टाज्ञाने तदनुसारेण आचरणे । प्रियसुरभिः प्रियवसन्त: कामः, तस्य शरासनप्रसरे तत्पारवश्ये इत्यर्थः, निपतति कामैकायत्तो भवतीत्यर्थः ॥ ६१ ॥ [ इत आसप्ताशीतितमं श्लोकं तस्य भट्टपुत्रस्य वेशचेष्टे परिचाययति स्थूलेति । तत्रादौ षड्भिः कुलकेन तद्वेशस्य वर्णनं, शेषैः चेष्टायाः । ] स्थूलस्थापितचूडः दीर्घवितवशिख इत्यर्थः । पञ्च अङ्गुलयः प्रमाणमस्य स पञ्चाङ्गुलः, पञ्चाङ्गुल एव पञ्चाङ्गुलमात्रः, तादृक् केशानां विन्यासो यस्य । करपत्रसदृशविततकोणत्वात् करपत्रक:-तथाभूतः,
५८ हलमवघानं संविधाय (गो. का.) संनिधाय (गो २ कापा) ६० सन्ने (गो २)। भवति नियमेन (का) ६१ यथा च (गो २) च यथा (प)। प्रियकुसुम (प) ६२ स्थापितकूलकपञ्चाङ्गुलकेशमात्रवि० (प.)। घटितदशनप० (गोरकापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com