________________
कुट्टनीमतम्
करशाखार्पितमुद्रिकचामीकरकण्ठसूत्रिकाभरणः । परिमृष्टगात्रकुडमकिञ्चित्पिञ्जरितवसनसंवीतः ॥ ६३ ॥ प्रविलम्बिकुसुमदामकगलमण्डनजातरूपकृतशोभः । अन्तर्निविष्टसिक्थकतौरुष्किकखुम्भिकादिचरणतः ॥ ६४ ॥ नानावर्णविवेष्टितबहलदशापाशबद्धततकेशः । एकस्मिन् दलवीटकमपरस्मिन् सीसपत्रकं कर्णे ॥६५॥ उच्चण्डकनकगर्भितकुडामपिञ्जरितवसनपरिधानः।
स्थूलतरकाचवर्तकमालां च गले दधानेन ।। ६६ ॥ [तेन ] घटितः सुभगः, दन्तपङ्क्तिः कंकतिका [तदाकारो भूषणविशेषः;] [वस्तुतस्तु दन्तपङ्क्तिः दन्तनिर्मिता पङ्क्तिः, पङ्क्तिश्च भूषणविशेषस्य नाम, तस्याः महाव्युत्पत्तिसंज्ञकबौद्धकोशरूपग्रन्थे अलंकारवर्गे पठितत्वात् । ] ॥ ६२ ॥ [करशाखा अंगुलिः । ] चामीकरं सुवर्णम् । परिमृष्टं कृतोद्वर्तनम् । पिञ्जरितं [पीतरक्तीकृतं ] पिशङ्गवर्णम् ॥ ६३ ॥ जातरूपं सुवर्णम् । सिक्थं मधूच्छिष्टं, [ मीणमोम-इति प्रसिद्धम् । ] तच्च मार्दवाद्यर्थमन्तः पूर्यते । [" सिक्थः पुलाके मदने क्लीबेथो वर्णकम्बले । द्वयोर्दर्भेषु च, कुथ: सक्तूनां द्रवताविधौ ॥” इति मङ्खकोशः (॥३७॥) [सिक्थ ] " पुलाके ओदननिष्पत्तिपरीक्षा । " अन्तर्निविष्टसिक्थिततौरुष्किकखुश्शिकादिचरणत्रः" । इत्यादौ मदने नपुंसकम् । एतत्तु मचनमिति वैद्याः । मच मुचि कल्क इति धात्वर्थानुगुण्यमस्मिन्नेव पक्षे दृश्यते” इति मंखकोशटीकायाम् ।। तौरुष्ककं तुरुष्कदेशसंबन्धि । [ तुरुष्कः शिलारस इति प्रसिद्धं शिकं, तेन निर्मितं लेपनद्रव्यं तौरुष्किकम् । यद्वा, तुरुष्कः महाव्युत्पत्तिग्रन्थे पठित: धूपविशेषः, तेन निर्वर्तितं लेपनद्रव्यं तौरुष्किकम् । ] खुम्भिका नालकं लोहपट्टिका । [चरणत्रः चरणं त्रातीति उपानत् । ] ॥६४॥ नानावर्णेन, विवेष्टितेन ग्रथितेन, बहलदशापाशेन भास्ववर्णप्रान्तभागेन सूत्रेण, बद्धाः संयताः, तताः दीर्घाः, केशा यस्य । दलवीटकं पल्लवान्त:स्थितताम्बूलम् [ तत्सदृशं भूषणविशेषोऽपि दलवीटकम् , ] सीसपत्रकं भूषणविशेषः । दधानेन इत्यनेनान्वयः ॥ ६५ ॥ उच्चण्डेत्यादि । विद्योतमानसुवर्णसूत्रनि
६३ शाखाश्रित (प)। पिञ्जरितसर्वाङ्गः (गो २ का)। ६४ खुंभिकादिचरणवः (प) सिक्थस्तौरुष्किकखुम्भिकादिचरणान्तः (कापा) अन्तर्निविष्टसिक्थिततौरुष्किकखुश्शिकादिचरणत्रः ( मंखकोशटीका पाठः।) ६५ विचेष्टित (प. कापा)। नतकेशः (प) ६६ काचचर्चक (का) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com