________________
कुट्टनीमतम् ।
१३
इदमेव पृथुलजघनं कलधौतशिलातलाभिरमणीयम् । तव तरुणवशीकरणं यतिसंयतिनाशकारि करभोर ॥ ५३ ॥ इदमेव तवोरुयुगं रम्भास्तम्भोपमं मनोहारि । वद सुन्दरि नाभिमतं मदनज्वरतापशान्तये कस्य ॥ ५४ ॥ यौवनकल्पतरोस्ते कनकलताविभ्रमं सुवृत्तमिदम् । जड्ढायुगलं नेच्छति कामफलप्राप्तये क इह ॥ ५५ ॥ निर्जितदाडिमरागं विजितस्थलकमलिनीविलासमिदम् । तव तरुणि चरणयुगलं कस्य न मानसमलङ्करुते ॥५६॥ हेपयति वारणेन्द्रं हसं हसति प्रयातमिदमेव । तव लीलावति ललितं यूनां हृदयानि मनाति ॥ ५७॥
क्लवान् । कामशरपरवशान् , यूनः तरुणान् ॥ ५२ ॥ कलधौतं सुवर्णम् । संयति:संयमः, समाधिः । [" वेधा द्वेधा भ्रमं चक्रे कान्तासु कनकेषु च ।” इत्युक्तेः । इतः क्रमेण वर्णितानां जघनोरुजङ्घाचरणानामङ्गानामयं विवेकः-जघनं काञ्चीपदं, यत्र काञ्ची निबध्यते, अतः कट्यधोगतः पुरोवर्ती प्रदेशः; तस्य पश्चाद्गतो नितम्बः । ऊरुस्तु जानुन: ऊर्ध्वगतो भागः । जङ्घा जानुनः अधोवर्ती आगुल्फो भागः, यामुद्दिश्य “तूणीरलावण्येन जो " इति दशकुमारचरितपूर्वपीठिकायां पञ्चमोच्छ्रास उक्तिः । चरणस्तु गुल्फाधः समग्रो भागः । एवं काव्यादिषु प्राय: सुन्दरीशरीरोत्तरार्धाङ्गानि-नाभिः वलित्रयं रोमावलिः जघनं मदनमन्दिरं ऊरू जानुनी जो गुल्फो चरणौ पादाङ्गुल्यः नखाः इति क्रमेण वर्ण्यन्ते ] ॥ ५३ ॥ रम्भास्तम्भः कदलीप्रकाण्डः उपमा यस्य तादृक् । [कदल्या: शीतलत्वं प्रसिद्धम् ] ॥५४॥ कनकलतायाः विभ्रम इव विलास इव विभ्रमो यस्य तत् । कल्पतरोलतायोगो युक्त एव । [तयोः सयोगे च अवश्यं फलेन भवितव्यमिति ] ॥ ५५ ॥[ निर्जितदाडिमराग इत्यनेन चरणयोः स्वाभाविको रक्ति. मातिशयः सूच्यते । विलासो लीला शोभेति यावत् ।] कस्येति-दृष्टं सत् कस्य मानसं नालङ्कुरुते, अपि तु सर्वस्यापि मनोऽधिष्ठितं भवति ॥ ५६ ॥ [ गमनक्रियां वर्णयति
५३ मेव च पृथुज० (गो २ का)। तरुणि वशीकरणं (गो. का.) ५४ रम्भागर्भोपमं (प. गो २)। ज्वरशान्तये ( का) [प पुस्तके ५५ अंकः प्रमादात् भ्रष्ट इति पुरोवर्त्यङ्केषु एकाधिक्यम् ] ५६ तव चरणसरोजयुगं (प. गो २)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com