________________
१२
दामोदरगुप्तविरचितं
इदमेव मकरकेतननिकेतनं स्तनयुगं तवाभोगि । भोगवति भोगसाधन परोपाय ग्रहो व्यर्थः ॥ ४९ ॥ इदमेव बाहुयुगलं मृणालपरिकोमलं तव वरोरु | कस्य न जनयति मदनं वरकटकं भूषितं सुतनु ॥ ५० ॥ अयमेव मध्यदेशः कंदर्पादेश करणचतुरस्ते । प्रकृशोऽपि शरीरवतो दशमीं प्रापयति मन्मथावस्थाम् ॥ ५१ ॥ इयमेव रोमराजिः संकल्पजचापयष्टिगुणशोभाम् । दधती विद्धाति तव स्मरसायकशल्यविक्लवान् यूनः ॥ ५२ ॥
66
विजितादिशब्देन सादृश्यं प्रतिपाद्यते । परभृतः कोकिलः । भुजङ्गा विटा:, [ पक्षे सर्पाः ] ॥४८॥ मकरकेतननिकेतनं कामायतनम् | [ तथा च मदालसाचंप्वां रूपकम् 'कुचक्रीडासौधः स्मरवसतिहेतोर्विरचितः । कृतात्रारोहार्थं वलिकपटनिश्रेणिसरणिः । मृदुर्बद्धा रज्जुस्तदुपरि करालम्बनकृते । किमेषेत्याशङ्कामकुरुत तदा लोमलतिका ॥ " ( १-७६ ) । अपि चान्यत्र - " कामिनीस्तनकान्तारे वसति स्मरतस्करः । मनो मागा विवस्त्रं स दिवाऽपि कुरुते जगत् " ॥ इति । ] आभोगि विशालम् । भोगव विलासशीले ॥ ४९ ॥ [ मृणालं बिसं कमलमूलम् ॥ ५० ॥ ] [ आदेश: आज्ञा, तस्य करणे पण्डित:, अत एव ] दशमीमित्यादि । अप्राप्तौ प्रलयावधि प्राणिनः पीडयतीत्यर्थः। “ अभिलाषश्चिन्ता स्मृतिगुणकथनोद्वेगसंप्रलापाश्च । उन्मादोऽथ व्याधिर्जडता मृतिरिति दशात्र कामदशाः ॥” इति साहित्यदर्पणे । [ विभावनालंकारः, तल्लक्षणं हेतूनामसमग्रत्वे कार्योत्पत्तिश्च सा मता ।" इति कुवलयानन्दे । एतेन तस्या मध्यस्य बलातिशयो व्यज्यते । काव्यादर्शानुसारेण तु अत्र विशेषोक्तिः, तत्र तल्लक्षणं तु "गुणजातिक्रियादीनां यत्तु वैकल्यदर्शनम् । विशेषदर्शनाथैव सा विशेषोक्तिरिष्यते ॥” इति । ] ॥ ५१ ॥ संकल्पजः कामः, तस्य, चापयष्टे:- -धनुषो गुणस्य, प्रत्यञ्चायाः, शोभां दधती, [ तत्प्रत्यञ्चास्थानीयानां भ्रमराणां रोमराजेश्च कृष्णवर्णत्वात् । ' स्मरसायकवि
८८
--
न्तिकान्तिसम ० ( प ) । मन्मथवेदनां ( प ) ४८ मन्त्रतां याति ( प ) मन्त्रवच्चरितम् ( गो ) । ४९ - ५० योर्व्यत्ययः ( प ) पुस्तके |
५० मृणालतनुसुन्दरं तवाभोगि ( गो. का. ) [ अस्मिन् पाठे अन्तिमपदयोः पूर्वश्लोकस्थपदाभ्यां पुनरुक्तिः । ] कनकाङ्गदभूषणं सुतनु ( गो . का . ) । ५१ शरीरभृतो ( प ) ( गो २ )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com