________________
कुट्टनीमतम् ।
सितधौतवसनयुगलां विविधौषधिमणिसनाथगलसूत्राम् । तन्वीमङ्गुलिमूले तपनीयमयीं च बालिकां दधतीम् ॥ २९ ॥ गणिकागणपरिकरितां कामिजनोपायनप्रसक्तदृशाम् । आसन्धामासीनां विलोकयामास विकरालाम् ॥३०॥ (कुलकम्) अवलोक्य सा विधाय क्षितिमण्डललीनमौलिना प्रणतिम् । परिपृष्टकुशलवार्ता समनुज्ञाताऽऽसनं भेजे ॥ ३१ ॥ अथ विरचितहस्तपुटा सप्रश्रयमासनं समुत्सृज्य । इदमूचे विकरालामवसरमासाद्य मालती वचनम् ॥ ३२ ॥ " विदधासि हरिमकौस्तुभमहरि हरिमंगजनाथममरेन्द्रम् ।
अद्रविणं द्रविणपति' नियतं मतिगोचरे पतितम् ॥ ३३ ॥ अयमेव बुद्धिविभवं हृतविभवस्ते पटचरावरणः । कामुकलोकः कथयति सत्रागारेषु भुञ्जानः ॥ ३४ ॥
कर्णाधस्तनभागः । कतिपये-परिकल्पनीयाः-न तु सर्वे, पाण्डुरा: जराजीर्णतया श्वेताः, चिकुराः केशाः, यस्यास्तां मिश्रचिकुरा इत्यर्थः ॥ २८ ॥ नानाप्रकारौषधिमणिभिः वशीकरणादिसाधनवृक्षादिमूलाश्मजातिविशेषखण्डैः, सनाथं सहितं, गलसूत्रं यस्याः । तपनीयमयीं सुवर्णनिर्मिताम् । बालिका सूत्रमुद्रिकाम् ॥ २९॥ परिकरिता परिवारिता, परिकरः संजातोऽस्या इति, तारकादित्वादितच् । 'परिकलितां' इति पाठे गणिकागणेन कुट्टनीकलनप्रसङ्गे कनिष्ठिकामारोपितामित्यर्थः। [उपायनं उपहारः ।] आसन्दी वेत्रासनम् ॥३०॥ सप्रश्रयं सविनयम् । अवसरमासाद्य स्वप्रथमं आगतेषु सिद्धे स्वस्वकायें गतेषु । ] ॥ ३२ ॥ [ इत: सप्तभिः कुलकेन विकरालापराक्रमं प्रस्तौति विदधासीति । ] हरि नारायणम् । हरिं सूर्यम् , अहरिं सप्ताश्वहीनम् । द्रविणपतिं कुबेरम् । नियतं निश्चितम् । मतिगोचरे बुद्धिवैभवविषये, पतितं समागतम् । तव मतिमायावशीकृता हर्यादयोऽपि तथा भवन्ति किमुतान्ये इत्यर्थः ॥ ३३ ॥ पटच्चरं जीर्णवस्त्रम् । कथयति सर्वान् ज्ञापयति । सत्त्रागारेषु पक्वान्नदानशालासु ॥ ३४ ॥
२९ वालिकां (प.) ३० परिकलितां (गो२) (कापा) ३१ अथ सा विधाय दूरात् क्षि (गो २) (कापा) ३२ विकराली (गो २) ३३ रविमगज' (प. गो २)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com