________________
दामोदरगुप्तविरचितं
सा शुश्राव कदाचिद्धवलालयपृष्ठदेशमधिरूढाम् । केनापि गीयमानां प्रसङ्गपतितामिमामार्याम् ॥ २२ ॥ ' यौवनसौन्दर्यमदं दूरेणापास्य वारवनिताभिः । यत्नेन वेदितव्याः कामुक हृदयार्जनोपायाः ' ॥ २३॥ श्रुत्वाऽथ विपुलजघना मनसीदं माळती चकार चिरम् । अतिसाम्प्रतमुपदिष्टं सुहृदेवानेन साधुना पठता ॥ २४ ॥ तद्गत्वा पृच्छामो विकरालां कलितसकलसंसाराम् । यस्याः कामिजनौघो दिवानिशं द्वारमध्यास्ते ॥ २५ ॥ इति मनसि सा निवेश्य, द्रुततरमवतीर्य वेश्मनः शिखरात् । विकरालाभवनवरं परिजनपरिवारिता प्रययौ ॥ २६ ॥ अथ विरलोन्नतदशनां निम्नहनुं स्थूलचिपिटनासाग्राम् । उल्बणचूचुकलक्षितशुष्ककुचस्थानशिथिलकृत्तितनुम् ॥ २७ ॥ गम्भीरारक्तदृशं निर्भूषणलम्बकर्णपालीं च । कतिपयपाण्डुरचिकुरां प्रकटशिरां संततायतग्रीवाम् ॥ २८ ॥
अभिधयेस्य च वक्रता लोकोत्तीर्णेन रूपेण अवस्थानम् वा ] ॥२१॥ [ द्वाभ्यां कथाबीजं निक्षिपति सा इति । ] पृष्ठदेशं उपरितनभागम् । प्रसङ्गपतितां स्वावसरत: स्मृतिपथमारूढाम् ॥ २२ ॥ अर्जनं वशीकरणम् । [ वेश्यानां न केवलं सौन्दर्यमेकमेव कामुकाकर्षकं,अपि तु अन्यदपि गुरूपदेशगम्यं वर्तते । गुरुरत्र कुट्टनी ]॥२३॥ अतिसाम्प्रतं युक्ततरम्. । साधुना सज्जनेन, सन्तोष भरेणेत्थमुक्तिः ॥ २४ ॥ कलितः परिज्ञातः । [ कामिजनौघः विलासिपुरुष समूह:, ] द्वारमध्यास्ते द्वारे तिष्ठति, तत्समागमाभिलाषया इत्यर्थः । लोकोक्त्यनुसारेणेदम् । “ अधिशीथासां कर्म " इति कर्मत्वम् ॥२५॥ परिजनपरिवारिता सहचरीगणसहिता ॥ २६ ॥ [ चतुर्भिर्गुरुत्वयोग्यां वृद्धां विकरालानाम्नीं वर्णयति अथेति । ] उल्बणचूचुकाभ्यां अतिश्याम (?) [उत्कट ] कुचाग्राभ्यां, लक्षितं स्पष्टं परिदृश्यमानं, शुष्कं कुचस्थानं यस्यास्तादृशी - शिथिला लथा अमांसलतया लम्बमाना, कृत्ति: चर्म, यस्यास्तादृशी- - च तनुर्यस्याः ताम् ॥ २७ ॥ गम्भीरे अन्तः प्रविष्टे । कर्णपाली
२२ देवालय ( गो २ ) । पठितामि ( प ) २५ तद्वृद्धां पृ० ( गो२ ) ( कापा. ) । विकराल ( गो २ ) ( कापा ) २६ विकराली ( गो २ ) २८ पालि ( कापा ) । सन्नतायत ( गो २ )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com