________________
दामोदरगुप्तविरचितं छन्दःप्रस्तारविधौ गुरवो यस्यामनार्जवस्थितयः। वीणायां परिवादो, द्विजनिलयेष्वप्रसन्नत्वम् ॥ १४ ॥ अनुरूपत्तघटना सत्कविकृतरूपकेषु लोके च । रमणीवचने यस्यां माधुर्य काव्यबन्धे च ॥ १५ ॥ यस्यामुपवनवीथ्यां तमालपत्राणि युवतिवदने च । नखरमहाररणितं तन्त्रीवाद्येषु सुरतकलहेषु ॥ १६॥ नन्दनवनाभिरामा विबुधवती नाकवाहिनीजुष्टा । अमरावतीव याऽन्या विश्वसृजा निर्मिता जगति ॥ १७ ॥ तस्यां खगपतितनुरिव विलासिनां हृदयशोकसंजननी ।
आकृष्टेश्वरहृदया प्रालेयनगाधिराजतनयेव ॥ १८॥ त्यादिभेदनं मैत्र्यादिभेदो वा ॥ १३ ॥ छन्दसां प्रस्तारविधौ [ लघुगुरुवर्णज्ञापनक्रियाभेदे ] निखिलभेदबोधकनिदर्शनेलेखे, गुरवो गुर्वक्षरसूचकरेखा:, अनार्जवस्थितय, न आर्जवं ऋजुता यासु ता अनार्जवाः तथा स्थितयो येषां ते वक्राकारा इत्यर्थः, [प्रस्तारे गुर्वक्षरस्यऽचिह्नत्वात्; न तु ब्राह्मणादयोऽध्यापका वक्रस्थितयः । परिवादो [परितो वाद:] वीणासप्तसूत्र तन्त्री ध्वनिः; न तु कस्यचित् [परिवादः-परीवादइत्यपि] निन्दा श्रूयते । [तथा च “ परीवादो वीणासु ” इति वासवदत्तायां चिन्तामणिवर्णने । तट्टीकायां-"परीवादो वीणावादनवस्तु " पक्षे अपवादः; “ परीवादोऽपवादे स्याद्वीणावादनवस्तुनि " इति मेदिनी इति।] द्विजनिलयेषु ब्राह्मणगृहेषुः, अप्रसन्नत्वं-नास्ति प्रसन्ना सुरा येषु तेषां भावः, अविद्यमानमद्यत्वमित्यर्थः; " गन्धोत्तमा प्रसन्नेराकादम्बर्यः" इति अमरः; न तु केषुचिदप्रसन्नत्वं दुःखित्वमित्यर्थः ॥ १४ ॥ वृत्तं चरित्रं वर्तनं च, रूपकेषु दृश्यकाव्येषु। माधुर्य सरसत्वं, काव्यगुणश्च; [तल्लक्षणं तु " चित्तद्रवीभावमयो हादो माधुर्यमुच्यते " इति साहित्यदर्पणे ॥ १५ ॥ उपवनं कृत्रिमः आरामः, तस्य वीथ्यां श्रेण्याम् । ] तमालपत्राणि तापिच्छवृक्षाः, मकरिकादिचित्रकाणि च । “ तमालपत्रं तापिच्छे तिलके पत्रकेऽपि च" इति विश्वः । [रणितं ध्वनिविशेष:] ॥ १६ ॥ नन्दनं मनोहारि, पक्षे तन्नामकं वनं उपवनम् । विबुधाः पण्डिताः, पक्षे देवाः । नाकवाहिनी गङ्गा, पक्षे देवसेना। [अत्रापि श्लेषोपमा।] ॥ १७ ॥ [त्रिभिः विशेषेकेण कुट्टनीमतं ज्ञातुकामां मालतीं वर्णयति
१५ रूपके च (गो. का.) । रमणीवदने (प) १६ कणितं (प) कलितं (गो २)। वाद्ये च..."हे च (प) १७ प्रजासृजा (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com