________________
__ अथ
अथ
दामोदरगुप्तविरचितं कुट्टनीमतम् ।
स जयति संकल्पभवो रतिमुखशतपत्रचुम्बनभ्रमरः। यस्यानुरक्तललनानयनान्तविलोकनं वसतिः ॥ १॥ अवधीर्य दोषनिचयं, गुणलेशे संनिवेश्य मतिमार्याः । कुट्टन्या मतमेतद्दामोदरगुप्तविरचितं शृणुत ॥ २॥
॥ अथ कुट्टनीमतटिप्पणम् ॥
श्रीकृष्णाय नमः। [ मन्मथमपि भुवनानां लीलाहितसायकैविजेतारम् ।
मुकुलितकुचयुगविद्धं कुर्वाणा सा रतिर्जयति ॥ ] [ अथ मङ्गलं प्रयुङ्क्ते स इति । ] सः-आदेवादिपामरं विदितप्रभावत्वेन प्रसिद्धः, जयति-सर्वोत्कर्षेण राजते । संकल्पभवः-संकल्पात् मनोविकारात् भवति प्रवतत इति तथा । रतेः तन्नामकस्वकान्तायाः मुखमेव शतपत्रं कमलं, मयूरव्यंसकादित्वात् समासः, तस्य चुम्बने भ्रमरः; कमलरसपानासक्तद्विरेफ इव तन्मुखास्वादप्रसक्त इत्यर्थः । अनुरक्तानाम्-अनुरागविशिष्टानां, ललनानाम् कामिनीनां, नयनयोरन्तेन प्रान्तभागेन, विलोकनम्-साकूतं कटाक्षविक्षेपः, तत् यस्य कामस्य वसतिः निवासस्थानं, तत उद्गमादिति भावः । 'विलोकितं ' इति क्वचित् पाठः, तत्र भावे क्त स एवार्थः ॥ १ ॥ [ सविनयं श्रोतृन् प्रकृत आवर्जयति अवेति । ] अवधीर्य निराकृत्य, दोषनिचयम् दोषसमूहम् । तथा च अत्र ग्रन्थे उपलभ्यमानानपि दोषान् अननुलक्ष्यीकृत्य, उपदेशफलकत्वेन ग्रन्थस्य परमोपयोगित्वात् , अवश्यमयं श्रोतव्य इति आर्याः सजनाः प्रबोध्यन्ते ॥ [“ कुट्टनी शंभली समेइति अमरः, द्वे परनारी
॥ अथ पाठान्तराणि ॥ *शुंभलीमत(म्) (प) शंभलीमतम् (कापा)। ग्रन्थलेखनारम्भे 'श्रीकृष्णाय नमः' इति (गो.) ॐ नमः शिवाय ' इति (प)।
१ विलोकितं (प) २ शुंभल्या मत (प)। दामोदरविरचितं (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com